________________
महितटदेशाधीश, विजयपालराणकम् । मित्रमाकार्य कृष्णेन, पर्यालोचः कृतस्ततः ॥११॥ अग्रे प्रधानैश्चौलुक्यैस्तौ द्वौ राज्यार्थमाहूतौ । महीपालरत्नपालौ राज्यं, त्वस्यैव मे मतिः ॥१२॥ द्वितीयेऽह्नि प्रधानानां, ज्ञापयित्वेति तौ ततः। आह्वयतः कुमारं च श्रीजयसिंहमेरुके ॥१३॥ ततः प्रधानैः संभूय, पूर्व राज्यार्थमाहूतः। महीपालस्तु तान्नत्वा, दत्तादेशं करोमि किम् ॥१४॥ तं विसृज्य रत्नपालस्तैराहतो महेश्वरम् । प्रणम्य सचिवादींश्च प्राञ्जलिः, प्राह पूर्ववत् ॥१५॥ विसृष्टः सोऽप्यथाऽऽहूतः, कुमारपाल ईश्वरः । नत्वा सहेलमावार्योत्तरीयाञ्चलसंचयम् ॥१६॥ कुमारपालः पृष्टस्त्वं, कथं राज्यं करिष्यसि । ततः कृपाणमादशि, केनापि पठितं यतः ॥१७॥ न श्रीः कुलक्रमायाता, शासने लिखिता न तु । खड्गेनाक्रम्य भुञ्जन्ति, वीरभोग्या वसुन्धरा ॥१८॥ तानाह्वास्ताभिषेकाय मृगेन्द्रासनमास्थितः। ततः कृष्णादिभिः प्रोचे, परामर्श विमुच्य भोः॥१९॥ अत्रार्थे मा बिलम्बध्वं, कार्य चेज्जीवितेन वः । तद्भीतैस्तैस्तथाचक्रे, कुमारगुणरञ्जितैः ॥२०॥ मुक्तानां सेतिका क्षिप्रा, तच्छीर्षेऽभूत्सफल्लिका । कृष्णदेवभट्टमुख्यैस्ततो राजेत्यसौ नतः ॥२१॥ श्रीकुमारपालदेवो, वेष्टितो मंडलेश्वरैः । पट्टहस्तिसमारूढो, मेघाडंबरमण्डितः ॥२२॥ चामरैर्वीज्यमानस्तु, गृह्णन् पौरजनाशिषः। विविधातोद्यनिर्घोषैर्बधिरीकृतदिग्मुखः ॥२३॥ हास्तिकाश्वीयपादातिरथकट्यादिकोटिभिः। पुरतः पार्श्वतः पश्चाल्लोकैश्च परिवरितः ॥२४॥ प्रदत्तछंटकैः कुम्भिमंदर्भृगमदैरिव । ददद्दानं तदर्थिभ्यो राजा प्रासादमासदत् ॥२५॥
Jan Ed
m
ational
For Personal Private Use Only