SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ कुमार० प्रतिबोध प्रबंध: EXEEEEEEEEEEEKKKKKKKXXXXX फालकृतः सोऽभूत् स्वभाण्डागारे, मंत्रिभिर्वारंवारं हिर्मुक्तः स्वद्रविणमोहितः पुनः पुनस्तत्रैव याति । राज्यं पुत्रं विना शून्यं जातम् । वैरिभिः निरुद्धं ततो महति संकटे लोकैः पुरस्थैः एको नागकुमारदेवः स्मृतः स समायातः । “स जातिस्मरणो नागः सप्तफणालंकृतोऽस्मदीयकुलोत्पन्नो पुराऽप्यस्य पुरस्य स्वामी ततोऽयमेव राजा भवतु" इति नागकुमारदेवकृतराज्याभिषेकः तत्प्रभावाद्राज्यं करोति देवः सौस्थ्य विधाय स्वस्थानमगात् । तदिदं नागराजसाम्राज्यम् । एतन्निशम्य कुमारेण चिन्तितम्-अहो दुर्गतिदाता क्रोधस्ततः पुरमध्ये बभ्राम ॥ कुमारोऽगाचर्मकारबालचंद्रापणेऽन्यदा । उपानदर्थ तेनाऽपि सादरं पूर्वनिर्मितं ॥१॥ उपानयुगलमेतद्युज्यते तव पादयोः । मूल्येनालं तव स्वामिन् ! मंगलीके मया कृतम् ॥२॥ हृष्टश्च शुभवाक्येन, शुश्राव कुमरस्तदा । “पत्तने पादुकाराज्यं, मरणं सिद्धभूपतेः" ॥३॥ कुमारपालं राजानं, शृणोषि पत्तने यदा । शीघ्रमेयास्तदामंत्र्य, मोचिकं कुमरस्ततः ॥४॥ उज्जयिन्यां सानुचरो, गत्वाऽखंडप्रयाणकैः । कन्नालीसिद्धपुरेऽगाल्लात्वा शेषकुटुम्बकम् ॥५॥ ततः पूर्वप्रतिपन्नमातुलस्य द्विजन्मनः । गृहे मुक्त्वा स्वकुटुम्बमेकाकी पत्नने ययौ ॥६॥ गत्वा गृहे कृष्णभट्टदेवस्य भगिनीपतेः । रात्रौ ननाम भगिनीं, कुमारःप्रीमिलाभिधाम् ॥७॥ भ्रातेति प्रत्यभिज्ञाय, तयाऽपि स्नापितः स्वयम् । स्नाननीरे वीक्ष्य, स्नातां दुर्गा शाकुनिकोब्रवीत् ॥८॥ सप्ताहान्तभवान् राजा, प्रमाणं शकुना यदि । तदाकर्ण्य भगिन्यापि, विज्ञप्तं पत्युरात्मनः ॥९॥ मंडलेश कृष्णदेवः, कुमारं परिरभ्य तम् । तवैव राज्यं नाऽन्यस्य, मा विषीदेत्युवाच सः॥१०॥ t emational BXXXXXXXXXXXXXXXXX Jan E For Personal Private Use Only
SR No.600191
Book TitleKumarpal Pratibodh Prabandh
Original Sutra AuthorMafatlal Zaverchand Gandhi
Author
PublisherMafatlal Zaverchand Gandhi
Publication Year1940
Total Pages156
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy