SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ कुमार० प्रतिबोध प्रबंध: EXEEEEEEEEEEEKKKKKKKXXXXX फालकृतः सोऽभूत् स्वभाण्डागारे, मंत्रिभिर्वारंवारं हिर्मुक्तः स्वद्रविणमोहितः पुनः पुनस्तत्रैव याति । राज्यं पुत्रं विना शून्यं जातम् । वैरिभिः निरुद्धं ततो महति संकटे लोकैः पुरस्थैः एको नागकुमारदेवः स्मृतः स समायातः । “स जातिस्मरणो नागः सप्तफणालंकृतोऽस्मदीयकुलोत्पन्नो पुराऽप्यस्य पुरस्य स्वामी ततोऽयमेव राजा भवतु" इति नागकुमारदेवकृतराज्याभिषेकः तत्प्रभावाद्राज्यं करोति देवः सौस्थ्य विधाय स्वस्थानमगात् । तदिदं नागराजसाम्राज्यम् । एतन्निशम्य कुमारेण चिन्तितम्-अहो दुर्गतिदाता क्रोधस्ततः पुरमध्ये बभ्राम ॥ कुमारोऽगाचर्मकारबालचंद्रापणेऽन्यदा । उपानदर्थ तेनाऽपि सादरं पूर्वनिर्मितं ॥१॥ उपानयुगलमेतद्युज्यते तव पादयोः । मूल्येनालं तव स्वामिन् ! मंगलीके मया कृतम् ॥२॥ हृष्टश्च शुभवाक्येन, शुश्राव कुमरस्तदा । “पत्तने पादुकाराज्यं, मरणं सिद्धभूपतेः" ॥३॥ कुमारपालं राजानं, शृणोषि पत्तने यदा । शीघ्रमेयास्तदामंत्र्य, मोचिकं कुमरस्ततः ॥४॥ उज्जयिन्यां सानुचरो, गत्वाऽखंडप्रयाणकैः । कन्नालीसिद्धपुरेऽगाल्लात्वा शेषकुटुम्बकम् ॥५॥ ततः पूर्वप्रतिपन्नमातुलस्य द्विजन्मनः । गृहे मुक्त्वा स्वकुटुम्बमेकाकी पत्नने ययौ ॥६॥ गत्वा गृहे कृष्णभट्टदेवस्य भगिनीपतेः । रात्रौ ननाम भगिनीं, कुमारःप्रीमिलाभिधाम् ॥७॥ भ्रातेति प्रत्यभिज्ञाय, तयाऽपि स्नापितः स्वयम् । स्नाननीरे वीक्ष्य, स्नातां दुर्गा शाकुनिकोब्रवीत् ॥८॥ सप्ताहान्तभवान् राजा, प्रमाणं शकुना यदि । तदाकर्ण्य भगिन्यापि, विज्ञप्तं पत्युरात्मनः ॥९॥ मंडलेश कृष्णदेवः, कुमारं परिरभ्य तम् । तवैव राज्यं नाऽन्यस्य, मा विषीदेत्युवाच सः॥१०॥ t emational BXXXXXXXXXXXXXXXXX Jan E For Personal Private Use Only
SR No.600191
Book TitleKumarpal Pratibodh Prabandh
Original Sutra AuthorMafatlal Zaverchand Gandhi
Author
PublisherMafatlal Zaverchand Gandhi
Publication Year1940
Total Pages156
LanguageSanskrit
ClassificationManuscript
File Size13 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy