SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ न प्राप्तानि पुरा न संप्रति ननु प्राप्तौ दृढप्रत्ययाः। वांछामात्रपरिग्रहाण्यपि परं, त्यक्तुं न शक्ता वयम् ॥१॥ ततो वैभारगिरिमारुरोह । श्रीशालिभद्र पादपोगमानशनशिलातलादि निरीक्ष्य चेतसि चमत्कृतो वैराग्यवान् जातः। ततो नवद्वीपकदेशेषु गत्वा जयपुरं ययौ । तत्र बहिःसर्वर्तुपुष्पफलोपेतमनोरमोद्याने शक्रावतारतीर्थे गतस्तत्र कमपि पुरुषं तत्स्वरूपमपृच्छत् । तेनोक्तं पुरा श्रीयुगादिदेवस्य शतं पुत्रा आसन् । तेषु जयकुमारस्थापितमिदं जयपुरम् । अन्यदात्र शक्रादिसुराऽसुरनरनिकरनायकसेव्यमानपादारविन्दः श्रीऋषभदेवः समवासार्षीत् तदा समवसरणस्थाने शक्रनिर्मितः प्रासादोऽयं षद् ऋतुमयमुद्यानं च भगवतः पूजार्थमिदम् । एतदाकर्ण्य चेतसीदमचिंतयत् । अहो अनादिकालीनोऽयं श्रीजिनधर्ममहाप्रभावश्च । ततस्तत्रादिदेवं ननाम । ततोऽपि कामरूपेऽगात्कामाख्ये क्षणकौतुकी । तत्र कामाख्यदेवीभवने गतः। पूजार्थमागतं निजरूपनिर्जितकामवामाक्षीगर्वसर्वस्वं स्त्रीवृन्दं देशस्वभावान्मुक्तमर्यादं सकलकलाकुशलमवेक्ष्याचिंतयत् । संसार ! तव निस्तारपदवी न दवीयसी । अंतरा दुस्तरा न स्युर्यदि रे मदिरेक्षणाः ॥१॥ वैरिवारणदन्ताग्रे समारुह्य स्थिरीकृता । वीरश्रीर्य महासत्वाः योषिद्भिस्तेऽपि खंडिताः॥२॥ ततोऽगात्तत्र यत्रास्ति, सर्परूपेण भूपतिः । भौतिकं दैविकं चापि, यद्राज्ये न भयं भवेत् ॥३॥ कुमारः कस्यापि वृद्धस्य पार्थे सर्पराज्यकारणमपृच्छत् । तेनोक्तं भो पुरा नागकुमारदेवस्थापितं नागेन्द्रपत्तनमिदम् ।। तत्र श्रीकान्तो राजाऽत्यन्तश्रीमान् दाता भोक्ता विवेकी प्रजामियः। परं यदपि तदपि कारणं प्राप्य तस्य क्रोध उत्पद्यते । यत:नाकारणरूषां संख्या, संख्याताः कारणे क्रुधः। कारणेऽपि न कुप्यन्ति, ये ते जगति पंचषाः ॥१॥ ततः स राजा क्रोधान्धो व्रजन् सौधान्धकारके स्तंभाभिघातमूच्छितो निःपुत्रो मृत्वाऽऽर्तध्यानवशात् सप्त www. Jan Educ aryo For Persons & Private Use Only a tional
SR No.600191
Book TitleKumarpal Pratibodh Prabandh
Original Sutra AuthorMafatlal Zaverchand Gandhi
Author
PublisherMafatlal Zaverchand Gandhi
Publication Year1940
Total Pages156
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy