SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ कुमार० प्रतिबोध प्रबंधः असारः संसारः सरसकदलीसारसदृशः, स्फुरद्विद्युल्लेखा चकितचपलं जीवितमिदम् । यदेतत्तारुण्यं नगगतनदीवेगसदृशम् । अहो धाष्टय पुंसां, तदपि विषयान् धावति मनः ॥१॥ कुमारोऽचिन्तयदसौ धिग् राज्यं यदपुत्रिणाम् । म्लेच्छानामपि सर्वस्वं, राजा गृ ति पुत्रवत् ॥१॥ दुर्भिक्षोदयमन्नसंग्रहपरः पत्युर्वधं बंधकी, ध्यायत्यर्थपतेर्भिषक् गदगणोत्पातं कलिं नारदः। दोषग्राहिजनस्तु पश्यति वसनच्छिद्रं छलं शाकिनी । निःपुत्रं म्रियमाणमाढयमवनीपालो .. हहा! वाञ्छति ॥१॥ राज्ये नाहं गृहीष्यामि, स्वदेशे स्वमपुत्रिणाम । प्रतिज्ञायेति कुमरो, गतः पाटलिपुत्रके ॥१॥ तत्र च पुरा संजातनवनंदकारितस्वर्णमयपर्वतादिस्वरूपं श्रुत्वा मनसीदमचिंतयत्येषां वित्तः प्रतिपदमियं पूरिता भूतधात्री, यैरप्येतदभुवनवलयं निर्जितं लीलयैव । तेऽप्येतस्मिन् भवगुरुहृदे बुदबुदस्तंबलीलाम् , धृत्वा धृत्वा सपदि विलयं भूभुजः संप्रयाताः ॥१॥ यद्यस्माकं वित्तचयो भविष्यति तदा दानभोगादौ व्ययं करिष्यामः इत्यादि बहु विचिन्त्याग्रे चचाल । ततो राजगृहं गत्वा वीक्ष्य वैभारपर्वतम् , श्रुत्वा समवसरणस्थानान्येष विसिष्मिये ॥१॥ तत्र प्राग्भवपुण्यप्राग्भारशालिनः श्रीशालिभद्रस्य सौधे निर्माल्योत्तीर्णस्वर्णमाणिक्यमणिमयाभरणप्रक्षेपवापीप्रमुखसमग्रस्थानानि निरीक्ष्य भोगलीलां वैराग्यं च श्रुत्वा विस्मयस्मेरमनाश्चिन्तयति स्म । यथा ब्रह्मज्ञानविवेकिनोऽमलधियः कुर्वन्त्यहो दुष्करम् । यन्मुच्यन्त्युपभोगभांज्यपि धनान्येकान्ततो निस्पृहाः॥ Jain Edu n tematonai For Personal & Private Use Only www.o brary.org
SR No.600191
Book TitleKumarpal Pratibodh Prabandh
Original Sutra AuthorMafatlal Zaverchand Gandhi
Author
PublisherMafatlal Zaverchand Gandhi
Publication Year1940
Total Pages156
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy