SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ कुमार० प्रतिबोध प्रबंधः असारः संसारः सरसकदलीसारसदृशः, स्फुरद्विद्युल्लेखा चकितचपलं जीवितमिदम् । यदेतत्तारुण्यं नगगतनदीवेगसदृशम् । अहो धाष्टय पुंसां, तदपि विषयान् धावति मनः ॥१॥ कुमारोऽचिन्तयदसौ धिग् राज्यं यदपुत्रिणाम् । म्लेच्छानामपि सर्वस्वं, राजा गृ ति पुत्रवत् ॥१॥ दुर्भिक्षोदयमन्नसंग्रहपरः पत्युर्वधं बंधकी, ध्यायत्यर्थपतेर्भिषक् गदगणोत्पातं कलिं नारदः। दोषग्राहिजनस्तु पश्यति वसनच्छिद्रं छलं शाकिनी । निःपुत्रं म्रियमाणमाढयमवनीपालो .. हहा! वाञ्छति ॥१॥ राज्ये नाहं गृहीष्यामि, स्वदेशे स्वमपुत्रिणाम । प्रतिज्ञायेति कुमरो, गतः पाटलिपुत्रके ॥१॥ तत्र च पुरा संजातनवनंदकारितस्वर्णमयपर्वतादिस्वरूपं श्रुत्वा मनसीदमचिंतयत्येषां वित्तः प्रतिपदमियं पूरिता भूतधात्री, यैरप्येतदभुवनवलयं निर्जितं लीलयैव । तेऽप्येतस्मिन् भवगुरुहृदे बुदबुदस्तंबलीलाम् , धृत्वा धृत्वा सपदि विलयं भूभुजः संप्रयाताः ॥१॥ यद्यस्माकं वित्तचयो भविष्यति तदा दानभोगादौ व्ययं करिष्यामः इत्यादि बहु विचिन्त्याग्रे चचाल । ततो राजगृहं गत्वा वीक्ष्य वैभारपर्वतम् , श्रुत्वा समवसरणस्थानान्येष विसिष्मिये ॥१॥ तत्र प्राग्भवपुण्यप्राग्भारशालिनः श्रीशालिभद्रस्य सौधे निर्माल्योत्तीर्णस्वर्णमाणिक्यमणिमयाभरणप्रक्षेपवापीप्रमुखसमग्रस्थानानि निरीक्ष्य भोगलीलां वैराग्यं च श्रुत्वा विस्मयस्मेरमनाश्चिन्तयति स्म । यथा ब्रह्मज्ञानविवेकिनोऽमलधियः कुर्वन्त्यहो दुष्करम् । यन्मुच्यन्त्युपभोगभांज्यपि धनान्येकान्ततो निस्पृहाः॥ Jain Edu n tematonai For Personal & Private Use Only www.o brary.org
SR No.600191
Book TitleKumarpal Pratibodh Prabandh
Original Sutra AuthorMafatlal Zaverchand Gandhi
Author
PublisherMafatlal Zaverchand Gandhi
Publication Year1940
Total Pages156
LanguageSanskrit
ClassificationManuscript
File Size13 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy