________________
कुमार० ॥ १५ ॥
वत्से जन्म यदा तेऽभूत्, तदेदं सैन्यमागतम् । त्वमूढा च पुत्रवती, जाताऽप्येतत्तथैव च ॥३३॥ तच्छ्रुत्वा शंभलीशोऽपि ससैन्यः दुर्गमे पुरे । प्राप्तः प्रोक्तो गवाक्षस्थबकरीवेश्यया यतः ||३४|| "गंडूपदः किमधिरोहति मेरुशृङ्ग, किं वा रवेरजगरो निरुणद्धि मार्गम् ।
शक्येषु वस्तुषु बुधाः श्रममारभन्ते, दुर्गग्रहग्रहिलतां त्यज शंभलीश !” ॥ १ ॥ अथापसृत्य राज्ञाऽपि, प्रेषिता गूढपूरुषाः । समर्प्य प्राभृतं तस्याः, प्रोचुः स्वामिनि ! नः प्रभुः || ३८५ ॥ जित्वा चित्रांगदं दुर्ग, जिघृक्षुस्त्वत्प्रसादतः । तत्प्रसीदादिशोपायं, साऽपि हृष्टा जगाद तान् ||३६|| सर्वाः प्रतोलीरुद्घाट्य, पूरितार्थिमनोरथः । भुङ्क्ते चित्रांगदो नित्यं प्रवेष्टव्यं तदा त्वया ||३७|| विवृणोमि गवाक्षस्था, यदा केशानहं तदा । ज्ञेया भोजनवेला सा, तं ज्ञात्वा शंभलीशराट् ॥३८॥ बक्करीगणिकाभेदाद्द्वितीये जगृहेऽह्नि तम् । दुर्गं चित्रांगदो राजा, गृहीत्वा स्वर्णपुरुषम् ||३९|| क्षीरकूपे ददौ झंप, तच्छ्रुत्वा शंभलीशराट् । क्षीरकूपाञ्जलं क्रष्वा, दृष्ट्वा तं स्वर्णपुरुषम् ||४०|| यावदाकर्षते तावत्पुनः पूर्णः स कूपकः । विलक्षोऽथ स मनसि, स्त्रीचरितमचिन्तयत् ॥४१॥ एता हसन्ति च रुदन्ति च कार्यहेतो- विश्वासयन्ति च परं न च विश्वसन्ति । तस्मान्नरेण कुलशीलसमन्वितेन, नार्यः श्मशानघटिका इव वर्जनीयाः ॥ अपि च- समोहयन्ति मदयन्ति विषादयन्ति, निर्भर्त्सयन्ति रमयन्ति विडंबयन्ति । एताः प्रविश्य सदयं हृदयं नराणां किं नाम वामनयना न समाचरन्ति ॥
Jain Edu temational
For Personal & Private Use Only
प्रतिबोध प्रबंधः
॥१५॥
www.brary.org