________________
पि कास्मिटाचलाधिपः । सलमानपतति रात्रौ,'
अथ व्यावृत्य सहसा, नृपं यावज्जुहोति सः । तावन्नरेन्द्रमंत्रिभ्यां, स एवाग्नौ हुतो हठात् ॥१८॥ व्याघ्रोऽप्यनुप्रविष्टस्तं, संजातः स्वर्णपूरुषः । संपूज्य तं गृहीत्वा च, राजाऽगान्मध्यमां पुरीम् ॥१९॥ यच्छन् यथेच्छं द्रविणं, ख्याति स पाप सर्वतः । ततः स्वऋद्धिरक्षार्थमादिदेशेति मंत्रिणः ॥२०॥ यथा चित्रगिरेः पार्श्वे, कूटशैलोऽस्ति दुर्गमः । तस्योपरि महादुर्ग, कारयाभंगुरोद्यमः ॥२१॥ मंत्रिणाऽपि तथाऽरब्धे, यावच्चेचीयते दिवा । तावन्निपतति रात्रौ, षण्मासा इति जज्ञिरे ॥२२॥ तथाप्यभंगुरोत्साह, नृपं कूटाचलाधिपः । उवाच मा कृथा दुर्गमत्र कर्तुं न कोऽप्यलम् ॥२३॥ प्राणात्ययेऽपि कत्तोऽस्मि, नृपेणोक्ते सुरोऽब्रवीत् । यद्येवं निश्चयस्तहि, कुरु चित्रनगोपरि ॥२४॥ दुर्गस्य नाममध्ये तु, देयं मन्नाम भूपते ! । तत्र चित्रांगदश्चक्रे, दुर्ग चित्रनगोपरि ॥२५॥ नगरं चित्रकूटाख्यं, देवेन तदधिष्ठितम् । कोटीध्वजानां यन्मध्ये, सहस्राणि चतुर्दशः ॥२६॥ लक्षेश्वराणां योग्या च, कारिता तलहडिका । वापीकूपसरोमुख्यं, शेषं देवेन कारितम् ।।२७।। इतश्च स्वर्णपुरुषं, सिद्धं चित्रांगदस्य तम् । ग्रहीतुं कर्णकुब्जेशः, शंभलीशो नृपो बली ॥२८॥ अरौत्सीदुर्गमागत्य, ततश्चित्रांगदोऽपि हि । नियंत्रितपुरद्वारो, लसत्युपरि निर्भयः ॥ युग्मम् ॥२९॥ चराः कौरिकवेषेण, वर्षेः कतिपयैः पुरम् । प्रविश्य शुश्रुवुर्वाता, गृहे शुक्लाधिकारिणः ॥३०॥ गवाक्षस्था मंत्रिपुत्री, लालयन्ती सुतं निजम् । भाषते तात ! किं नैते, मुच्यन्ते वणिजारकाः ॥३१॥ हसित्वा तत्पिताऽहेति, न वत्से वणिजारकाः। शंभलीशचमूरेषाऽवात्सीदुर्गजिघृक्षया ॥३२॥
Jan Edo
emati
For Persons & Private Use Only
1
lbrary.org