SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ कुमार० प्रतिबोध | प्रबंधः सूक्ष्माणि पंच दशनाङ्गुलिपर्वकेशाः। साकं त्वचा कररुहाश्च न दुःखितानां ॥३॥ हनुलोचनबाहुनासिकास्तनयोरंतरमत्र पंचकम् । इति दीर्घमिदंतु सौख्यदं न भवत्येव नृणामभूभुजाम्४ त्रिषु विपुलो गंभीरस्त्रिष्वेव षडुन्नतश्चतुर्हस्वः । सप्तसु रक्तो राजा, पंचसु सूक्ष्मश्च दीर्घश्च ॥५॥ श्रुत्वेति मुदितो राजा, प्राह योगीन्द्रमुत्तमम् । किमु कार्य मयाऽख्याहि, यथा तथा करोम्यहम् ॥६॥ यतः-कृष्णचतुर्दश्यां, रात्रौ चित्रनगोपरि । मम सिद्धयति मंत्रश्चेवं तत्रोत्तरसाधकः ॥७॥ ओमित्युक्त्वा नरेन्द्रेण, स योगीन्द्रो व्यसृज्यत । राजपत्न्यान्तरतया, तच्छ्रुत्वाऽवाचि मंत्रिणे ॥८॥ उवाच मंत्री ज्ञाप्योऽहं, यदा तत्र व्रजेन्नृपः। ततो यथोक्तवेलायां, खड्गव्यग्रकरो नृपः॥९॥ एकाकी निययौ छनो, राज्या ज्ञात्वा च मंत्र्यपि । दक्षो नरेन्द्ररक्षार्थ, नृपेणाऽलक्षितो ययौ ॥१०॥ नृपोऽपि चित्रशैलाग्रमारूढो, वीक्ष्य योगिनम् । व्याघ्रं च होमसामग्री, ततोऽजल्पत् करोमि किम् ? ॥११॥ रक्षार्थ होमसामच्यामुक्त्वा तत्र नरेश्वरम् । योगी जलार्थ सव्याघ्रः, क्षीरकूपं गतः स्वयम् ॥१२॥ इतश्च प्रकटीभूय, नत्वोचे मंत्रिणा नृपः । देवोपकरणैरेभिः, साध्यते स्वर्णपूरुषः ॥१३॥ तत्वं सिसाधिषुर्योगी, होमित्वा त्वत्तनुं ध्रुवम् । तद्यतस्व स्वरक्षायै, इत्युक्त्वाऽन्तरितोऽपि सः॥१४॥ राज्ञा सह ततः स्नात्वा, जलमानीय योगिना । विलेपनविलिप्यांगं, होमार्थ ज्वालितोऽनलः ॥१५॥ उक्तश्च राजा त्वं देवः, प्रतिपन्नैकवत्सलः । तदस्य वह्निकुण्डस्य, देहि प्रदक्षिणात्रयम् ॥१६॥ राजा सशंकस्तं स्माह, त्वं योगिन्नाग्रतो भव । ततो योगी तथा कुर्वन्न च्छलं प्राप भृपतेः ॥१७॥ ॥१४॥ Ibrary.org Jan Education Interational For Persons & Private Use Only
SR No.600191
Book TitleKumarpal Pratibodh Prabandh
Original Sutra AuthorMafatlal Zaverchand Gandhi
Author
PublisherMafatlal Zaverchand Gandhi
Publication Year1940
Total Pages156
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy