SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ "सर्वस्मिन्नणिमादिपंकजवने रम्येऽपि हित्वा रतिं । शुद्धां मुक्तिमरालिका प्रतिदृशं यो दत्तवान् आदरात् । चेतोवृत्तिनिरोधलब्धपरमब्रह्मप्रमोदावुभृत् । सम्यक्साम्यसरोजसंस्थितिजुषे हंसाय तस्मै नमः" ॥१॥ ___ ततः कुमारोऽपृच्छत्-योगिन् ! किं दानं किं स्नानं किं ध्यानं चेति-योग्यूचे "स्नानं मनोमलत्यागो, दानं चाऽभयदक्षिणा । ज्ञानं तत्त्वार्थसंबोधो, ध्यानं निर्विषयं मनः" ॥१॥ एतदाकर्ण्य प्रमुदितः-- "मध्ये दशपुरे स्थित्वा, चित्रकूटनगरं गतः । शान्तिऋत्ये श्वेतभिक्षो, रामचंद्रस्य सन्निधौ " ॥१॥ जाते चित्रे चित्रकूटदुर्गोत्पत्तिमपृच्छयत । रामोऽप्यूचे-इतः क्रोशत्रयेऽभूत् मध्यमापुरी ॥२॥ तत्र चित्रांगदो राजा सोऽन्यदाभिनवैः फलैः । योगिना व्याघ्रयुक्तेन षण्मासावधि सेवितः॥३॥ पृष्टो हेतुरथो राज्ञा, योग्यूचे मंत्रसिद्धये । द्वात्रिंशल्लक्षणयुतः सान्निध्यात्ते भवेच्च स ॥४॥ राज्ञा पृष्टे पुनः कानि लक्षणानि महीतले । कौतुकं यदि ते तर्हि, श्रूयतां तानि भूधरः ! ॥५॥ नाभिः स्वरः सत्त्वमिति प्रतीतं, गंभीरमेतत्रितयं नराणाम् । उरो ललाटं वदनं च पुंसां, विस्तीर्णमेतत्रितयं प्रदिष्टम् ॥१॥ वक्षोऽथ कुक्षि खनासिकाऽऽस्य, कृकाटिका चेति षडुन्नतानि । हस्वानि चत्वार्यथ लिंगपृष्ठं, ग्रीवा च जंघेऽभिमतप्रदानि ॥२॥ नेत्रांतपादकरताल्वधरौष्ठजिह्वा, रक्तान्यमूनि ननु सप्त हितप्रदानि । . en Edec l emational For Personal & Private Use Only www. jianchary.org
SR No.600191
Book TitleKumarpal Pratibodh Prabandh
Original Sutra AuthorMafatlal Zaverchand Gandhi
Author
PublisherMafatlal Zaverchand Gandhi
Publication Year1940
Total Pages156
LanguageSanskrit
ClassificationManuscript
File Size13 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy