SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ कुमार० प्रतियोध प्रबंध: ॥१३॥ ** KEEEEEKEEKKKKKKKKKEEXXX “यथा चित्तं तथा वाचो, यथा वाचस्तथा क्रियाः। चित्ते वाचि क्रियायां च, साधूनामेकरूपता" ॥१॥ ततः कुमारो निर्याय, प्रतिष्ठानपुरं गतः। द्विपंचाशद्वीरकूपाद्याश्चर्याणि व्यलोकयत् ॥१॥ प्राप्तः क्रमेणोजयिन्यां, निजस्वजनसन्निधौ । भ्रमंस्तत्रान्यदा यातः, कुण्डगेश्वरमंदिरे ॥२॥ प्रणम्य लिङ्गं तन्मध्ये, व्याप्तं (पाच) सप्तफणाकुरैः । वीक्ष्य प्रशस्तिमध्ये तु, गाथामेतामवाचयत् ॥३॥ "पुण्णे वाससहस्से सयंमि वरिसाण नवनवइ अहिए। होही कुमरनरिन्दो, तुह विकमराय! सारिच्छो” । आत्मनो नामसाम्यं च, वर्षाणां वीक्ष्य पूर्णताम् । गाथार्थ कुमरोऽपृच्छज्जैनदर्शनसन्निधौ ॥४॥ सोप्याह पूर्वमत्रासीत् , सिद्धसेनो दिवाकरः । विक्रमादित्यभूपस्य, तेनाऽभ्यर्थनया किल ॥५॥ द्वात्रिंशद्वात्रिंशकाभिर्वीतरागः स्तुतस्ततः । कुण्डगेश्वरलिङ्गं च, स्फुटितं तस्य मध्यतः॥६॥ आविरभूद्धरणेन्द्रः, श्रीपार्श्वप्रतिमाधरः, । तं दृष्ट्वा विक्रमादित्यः, संजातः परमार्हतः ॥७॥ गुरूपदेशतस्तेन, कारितं भूमिमण्डलम् । अनृणं निजदानेन, ततः संवत्सरो महान् ॥८॥ तेनेकदा सिद्धसेनः, पृष्टः किं कोऽपि भारते । अतः परं जैनभक्तः, सार्वभामो भविष्यति ॥९॥ श्रुतज्ञानेन विज्ञाय, गाथेयं गुरुणोदिता । राज्ञा च लेखिताऽत्रैव, तच्छ्रुत्वा कुमरोऽवदत् ॥१०॥ आर्हतानामहो शक्तिरहो ज्ञानमहो व्रतम । अहो परोपकारित्वं, किममीषां हि नाद्भुतम् ॥११॥ ततः सज्जनभोपल्लदेवीवोसिरिभिः समम् । धृत्वा निर्झरवेषं स, उज्जयिन्या विनिर्ययौ ॥१२॥ दशपुरे पद्मासनासीनं प्रशमामृतधरं योगिनं विलोक्य ननाम स ध्यानं मुक्त्वा कुमारमूचे। ww *******XXXXXXXXX Jan Ed m ational b rary.org For Personal & Private Use Only
SR No.600191
Book TitleKumarpal Pratibodh Prabandh
Original Sutra AuthorMafatlal Zaverchand Gandhi
Author
PublisherMafatlal Zaverchand Gandhi
Publication Year1940
Total Pages156
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy