________________
क्वचिद्योगी क्वचिद्वौद्धः, क्वचित्तापसवेषभृत् । क्वचित्कार्पटिकाकारो, भृशं बम्राम भूतले ॥११॥ गत्वा कोलापुरेऽद्राक्षीत् , दानभोगादिसद्गुगम् । सर्वार्थसिद्धियोगीन्द्र, सेवित्वा चाप्यतोषयत् ॥१२॥ उवाच योगी मंत्री स्तः, एकः साम्राज्यदायकः । स्वेच्छया धनदाताऽन्यः, आद्यः सोपद्रवः पुनः॥१३॥ सत्त्वसारः कुमारोऽथ, मंत्रं जग्राह राज्यदम् । उक्ते तेन विधिना, पूर्व सेवां व्यधत्त सः ॥१४॥ ततः कृष्णचतुर्दश्यां गत्वा पितृवने निशि । शबस्य वक्षसि न्यस्य, वह्निकुण्डं स्वयं पुनः ॥१५॥ उपविश्य तस्य कटयां, यावद्होमं ददाति सः । करालमूर्तिः प्रत्यक्षस्तावत्क्षेत्राधिपोऽवदत् ॥१६॥ मामनभ्यर्च्य रे धृष्ट ! किमारब्धं मुमूर्षया । इति श्रुत्वाऽपि निःक्षोभः, सोऽपि जापं समापयत् ॥१७॥ तदा च भूत्वा प्रत्यक्षं, महालक्ष्मीरवोचत् । गुर्जराष्ट्राधिपत्यं ते, दत्तं वर्षैस्तु पंचभिः ॥१८॥ सिद्धमंत्रकुमारोऽपि, नत्वा सर्वार्थयोगिनम् । कल्याणकटके देशे, क्रमाकान्तीपुरीं ययौ ॥१९॥ यतः-पुष्पेषु जाति, नगरेषु कान्ति, नारीषु रंभा पुरुषेषु विष्णुः ॥
___ सतीषु सीता, द्रुषु कल्पवृक्षो। जिनोस्तु देवेषु नगेषु मेरुः ॥१॥ कुमारः कौतुकात्तस्या, भ्रमन्परिसरेऽन्यदा । कबंधमेकमद्राक्षीत् , वैरिणाऽपास्तमस्तकम् ॥२०॥ तत्पार्श्वे मिलितस्त्रीणां, शुश्रावाऽन्योन्यजाल्पतम् । अहो कचकलापोऽस्य, अहो श्रवणलंबता ॥२१॥ अहो घनत्वं कूर्चस्य, ताबूलव्यसनं तथा । अहो विरलदन्तत्वं, श्रुत्वेत्येका ततो जगौ ॥२२॥
Jain Edukonemational
For Personal & Private Use Only
ww
r
ary.org