SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ एधंविधगुणपात्रभक्त्या मुक्तिरिति श्रीहेमचंद्राचार्यैः सर्वदर्शनसंमते निविदिते सति सर्वधर्मान् श्रीसिद्धराज आरराध। ___ अथ सा मणयल्लदेवी जातिस्मरणात् पूर्वभववृत्तान्तं श्रीसिद्धराजे निवेदिते सति श्रीसोमनाथयोग्यां सपादकोटिमूल्यां हेममयीं पूजां सहादाय बाहुलोडनगरे संप्राप्ता । तत्र पंचकुलेन कार्पटिकेषु कदर्थ्यमानेषु राजदेयविभागस्याप्राप्त्या सबाष्पं पश्चान्निवर्यमानेषु श्रीमणयल्लदेवी हृदयादर्शसंक्रान्तबाष्पा स्वयमेव पश्चादयाघुटन्ती अंतरा अंतरायीभूतेन श्रीसिद्धराजेन विज्ञापयांचके स्वामिन्यलममुना संभ्रमेण "कुतो हेतोः पश्चान्निवय॑ते" इति राज्ञाभिहिते यदैव सर्वथा अयं करमोक्षो भवति तदैवाहं श्रीसोमेश्वरं प्रणमामि नान्यथेति, किंचातः परमशननीरयोश्च नियमः इति राजा श्रुते पंचकुलमाकार्य तत्पट्टकस्यान्ते द्वासप्ततिलक्षान् उत्पद्यमानान् विमृश्य तं पट्टकं विदार्य मातुः श्रेयसे तं कर मुक्त्वा तत्करे जलचुलुकं स मुश्चति स्म। तदनु विप्राः पृष्टाः करमोक्षे किंफलं । तैरुचे-- "अकरे करकर्ता च गोसहस्रवधः स्मृतः। प्रवृत्तकरविच्छेदे गवां कोटिफलं भवेत्" इति स्मृतिः॥१॥ __तच्छ्रुत्वा मुदितो राजा, अथ सा सोमेश्वरं गत्वा तया सुवर्णपूजया अभ्यर्च्य तुलापुरुषगजाश्वगोदानादीनि । महादानानि दत्त्वा मत्सदृशः कोऽपि नाभून्न भविष्यतीति दर्याध्माता निशि निर्भरं प्रसुप्ता तपस्विवेषधारिणा तेनैव देवेन जगदे "इहैव मदीयदेवकुलमध्ये काचित्कार्पटिकनितम्बिनी समायाताऽस्ति । तस्याः सुकृतं याचनीयं त्वया" इत्थमादिश्य तिरोहिते तस्मिन् राजपुरुषैविलोक्य सा समानीता तस्मिन् पुण्ये याचितेप्यददाना कथमपि त्वया यात्रायां किं व्ययीकृतमिति उक्ता सती सा प्राह । “भिक्षावृत्त्या योजनशतानि देशान्तरमतिक्रम्य बस्तनदिवसे कृततीर्थोपवासा पारणदिने कस्यापि सुकृतिनः Jain Ede temational For Personal & Private Use Only www.c brary.org
SR No.600191
Book TitleKumarpal Pratibodh Prabandh
Original Sutra AuthorMafatlal Zaverchand Gandhi
Author
PublisherMafatlal Zaverchand Gandhi
Publication Year1940
Total Pages156
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy