________________
कुमार०
॥ ७ ॥
सहमाना निजदुश्चरितं शोचयन्ती कदाचिन्मध्यं दिने दिनेश्वरकठोरतरकरनिकरप्रसरतप्यमानाऽपि शाड्वलभूमिषु तं वृषभरूपं पति चारयन्ती कस्यापि तरोर्मूले विश्रान्ता निर्भरं विलपन्ती स्थिता, तस्याः आलापं नभसि अकस्मात् शुश्राव तदा तत्रागतो विमानाधिरूढः पशुपतिः, भवान्या तदुःखकारणं पृष्टो यथावस्थितं निवेद्य च तरोश्छायायां पुंस्त्वनिबंधनमौषधं तन्निर्वन्धादादिश्य तिरोदधे । सा तदनु तदीयां छायां रेखाङ्कितां निर्माय तन्मध्यवर्त्तिन औषधाङ्कुरानुच्छेद्य वृषभवदने निक्षिपन्ती तेनाप्यज्ञातस्वरूपेण औषधाङ्कुरेण वदनन्यस्तेन स वृषभो मनुष्यतां प्राप । यथा तदज्ञातस्वरूपेणापि भेषजांकुरेण सा समीहितकार्यसिद्धिं चकार । तथा कलियुगे मोहान्धिते तिरोहितपात्रपरिज्ञाने सभक्तिकं सर्वदर्शनाराधनेनाविदितस्वरूपमपि मुक्तिपदं भवतीति निर्णयः । पुनः पात्र परीक्षाविचारे श्रीहेमसूरयः प्राहुः "राजन् ! द्वैपायनयुधिष्ठिर भीमसंवादे पात्रपरीक्षायां भीम उवाच -- "मूर्खस्तपस्वी राजेन्द्र ! विद्वांश्च वृषलीपतिः । उभौ तौ द्वारि तिष्ठेते, कस्य दानं प्रदीयते" ॥ १ ॥ युधिष्ठिर उवाच
"सुखासेव्यं तपो भीम ! विद्या कष्टदुरासदा । विद्वांसं पूजयिष्यामि, तपसा किं प्रयोजनम् ” ॥१॥ भीमोप्यचे
"श्वानचर्मगता गंगा, क्षीरं मद्यघटस्थितम् । अपात्रे पतिता विद्या, किं करोमि युधिष्ठिर ! " ॥ २॥ द्वैपायन उवाच --
"न विद्यया केवलया, तपसा चापि पात्रता । यत्र ज्ञानं क्रिया चोभे, तद्धि पात्रं प्रचक्ष्यते " ॥ ३ ॥
For Personal & Private Use Only
Jain Edu intemational
प्रतिबोध प्रबंधः
॥७॥
Valbrary.org