________________
कुमार०
॥ ६८ ॥
'च्छ्विाणि मुहूकाणी सा, पई भागी तुह मह मरउं । हेमसूरि अत्थाणि, जे इसर ते पंडिआ ॥१॥ वंदनकसमये नृपस्य पृष्टो हस्तप्रदाने चारणः
'हेमतुहारा करमर, जिह अच्चुष्भुअरिद्धि । जे चंपह हिट्ठा मुहा, तीह उपहरी सिद्धि ||१|| द्वयोखिः पाठेन लक्षत्रयमौचित्यमदात् । ततः परमेश्वरं तुष्टाव ।
'आजन्मकलिताजिह्म- परब्रह्ममयात्मने । चिदानंदपदस्थाय, श्रीनेमिस्वामिने नमः ॥ १ ॥
अथोभयतीर्थयात्रयात्मानं पवित्रीकृत्य राजा सपरिकरः पथि प्रभावनां कुर्वाणः श्रीपत्तनमाजगाम । प्रौढमहिम्ना नित्यं धर्मध्यानपरो दिनानि सफलयति । अथ श्रीकुमारपालेन द्वासप्ततिसामंता भूपालाः स्वाज्ञां ग्राहिताः अष्टदशदेशेषु अभारिप हो दापितः, चतुर्दशसु देशेषु अर्थबलेन मैत्रीबलेन च विनयेन च जीवरक्षा कारिता । १४४४ नवीनप्रासादेषु कलशाधिरोपणं कारितं, १६००० जीर्णोद्धारेषु कलशध्वजारोपोऽकारि । सप्तश्रीतीर्थयात्राभिरात्मा पवित्रितः । एकविंशतिश्रीज्ञानकोशलेखनं । द्वासप्ततिलक्षमृतकद्रव्यपत्रं पाटितवान् । ९८ लक्षप्रमाणं द्रव्यमौचित्ये दत्तं । परमाईतबिरुदं लब्धं । आजन्मपरनारीसहोदरबिरुदं च । सप्तव्यसनानि निवारितानि । श्रीसंघभक्तिसाधर्मिकवात्सल्यजिनाचद्विरावश्यकपर्वदिनपौषधदानशासनप्रभावनादीनोद्धारपरोपकारादिपुण्यकृत्यान्येकधा कृतानि ।
कुमारपाल भूपस्य किमेकं वर्ण्यते क्षितौ । जिनेन्द्र धर्ममासाद्य यो जगत्तन्मयं व्यधात् ॥१॥ अत्रांतरे च निर्व्यूढराजव्यापारौ विहितानेकनवीनप्रासादजीर्णोद्धारपरोपकारदीनोद्धारादिपुण्यकृत्यौ कृतश्रीजिनशासनप्रभावको मंत्रिबाहडदेवांबडौ स्वर्ग जग्मतुः । अथैवं काले श्रीकुमारपालभूपालः श्रीहेमसूरिश्व कृतकृत्यौ महता तपसा
For Personal & Private Use Only
Jain Eduntemational
प्रतिबोध प्रबंध
॥ ६८ ॥
ww.brary.org