SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ EXEEXXXEEEEEKORE वयसा च वृद्धौ जातौ । परं श्रीहेमसूरिंगच्छे विरोधः रामचंद्रगुणचंद्रदमेकतः एकतो बालचंद्रस्तस्य तु राजभातृव्याऽजयपालेन सह मैत्री। अन्यदा राजा श्रीगुरुं पृच्छतिस्म भगवनपुत्रोऽहं कं स्वराज्यपदे स्थापयामि श्रीगुरुमिरुक्तं राजन्नयं भागिनेयः प्रतापमल्लः प्रजापियो न्यायधर्मनिष्ठो बहुराजवर्गीयसंमतो राज्यभारधुराधुरिणोऽस्ति अजयपालोप्यस्ति परं न सत्संगरंगः । न न्यायनिष्ठो न धर्मप्रियः प्रजानुरागः यदुक्तं'धर्मशीलः सदा न्यायी, पात्रे त्यागी गुणादरः। प्रजानुरागसंपन्नो, राजा राज्यं करोति सः ॥१॥ नचाऽयमेवंविधगुणवान् , अजयपालात्तु त्वत्कारितधर्मस्थानक्षयः कियानस्ति । एवं मंत्रे कृते बालचंद्रेण स्वरूपमेतदजयपालाय न्यवेदि । तस्य रामचंद्रादिषु श्रीचौलुक्ये च महान् द्वेषः समजनि । अत्रावसरे चतुरशीतिवषायुषः श्रीहेमसूरिवराः परिज्ञातनिजावसानसमयाः समयोचित्तं चिकीर्षवः समस्तश्रीसंघ स्वकीयगच्छं श्रीकुमारपालनृपतिं चाहूय तवापि षण्मासशेषमायुरस्तीतिप्रज्ञापनां दत्वा दशधाऽऽराधनां विधाय समधियोगसाधितस्वकृत्याः। 'निरंजनं निराकारं, सहजानंदनंदितं । निरूप्य मनसा नित्यं, स्वरूपं पारमेश्वरं ॥१॥ 'कृत्वा तन्मयमात्मानं, त्यक्त्वा सर्व स्वतः परं । स्वात्मावबोधसंभूत-ज्योतिषेति व्यभावयन् ॥२॥ यथा-आत्मन् देवस्त्वमेव त्रिभुवनभवनोद्योतिदीपस्त्वमेव, ब्रह्मज्योतिस्त्वमेवा-खिलविषयसमुज्जीवनायुस्त्वमेव । 'कर्ता भोक्ता त्वमेव व्रजसि जगति स्थाणुरूपस्त्वमेव । स्वस्मिन् ज्ञात्वा स्वरूपं, किमु तदिहबहिर्भावमाविष्करोषि ? ॥३॥ Jain Edull ematonai For Personal & Private Use Only M arary.org
SR No.600191
Book TitleKumarpal Pratibodh Prabandh
Original Sutra AuthorMafatlal Zaverchand Gandhi
Author
PublisherMafatlal Zaverchand Gandhi
Publication Year1940
Total Pages156
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy