SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ नाम्नी मत्पित्रा निधनसमयेऽहं भाषितः वत्स! चिरंकृताः प्रवहणयात्राः फलिताश्च मे मिलितं धनं, तेन च प्रत्येकं सपादकोटिमूल्यं माणिक्यपंचकं । अधुना ऋषभप्रभुचरणौ शरणं मे अनशनं प्रतिपनं क्षमिताः सर्वे जीवाः । एकं माणिक्यं श्रीऋषभाय, एकं नेमिनाथाय, एकं चंद्रप्रभवे देयं । माणिक्यद्वयाऽत्मनोंतिके दध्याः मामिति निगद्य गतः परलोकं पिता । तज्जनकवचनसमर्थनाय जनन्याः सहाऽहमागतः । सा कपर्दिभुवने मुक्तास्ति । तामष्टषष्टितीर्थाधिका माला परिधापयिष्यामि श्रुत्वा रुष्टो राजा मंत्री संघश्च मालापरिधानं कृतं । तेन जगडेन वणिजा तन्माणिक्यं हेम्ना खचित्वा ऋषभाय कण्ठाभरणं राजा कारयामास । महापूजावसरे चारणः पपाठ'इकह फुल्लह माटि देइ जु नरसुरसिव सुहइ एहि करइ कुसाटि, वपु भोलिम जिणवरतणी" ॥१॥ नवकृत्वः पठनेन च लक्षदानं द्रम्माणां, आरात्रिकावसरे महादानं ततो राजा स्वं कृतार्थ मन्यमानः कृत्वा अमानमहिमानं श्रीरैवतदैवतं मनसा ध्यायन सपरिकरस्तद्दिशं प्रति प्रयाणमकरोत् । पथि च वृक्षानपि पट्टकूलपरिधापनिकया सन्मानयन रैवतासन्ने समायाते अकस्मादेव पर्वतकंपे संजायमाने श्रीहेमचंद्राचार्या नृपं प्राहु-इयं छत्रशिला युगपदुपेतयो योः पुण्यवतोरुपरि पतिष्यति इति वृद्ध परंपरा । तदावां पुण्यवंतौ यदियं गीः सत्या भवति तदा लोकापवादः । नृपतिरेव देवं नमस्करोतु न वयमित्युक्ते नृपतिनोपरुध्य प्रभव एव संघेन सह प्रेषिताः । न स्वयं छत्रशिला मार्ग । परस्मिन् मार्गे जीर्णप्राकारपक्षेन श्रीवाग्भटकारितपद्यां चटितः। तत्र स्नात्रविधिपूर्वकं स्नात्रपूजादानसर्वस्थानेषु लक्षारामसहस्राम्रवनचंद्रगुफांविकावलोकन-शिखरशांबप्रद्युम्नादिषु चैत्येषु चैत्यपरिपाटीं कृत्वा महाप्रभावनां चारात्रिकावसरे चारण: पपाठ । en Edo Alemations For Personal & Private Use Only www. brary.org
SR No.600191
Book TitleKumarpal Pratibodh Prabandh
Original Sutra AuthorMafatlal Zaverchand Gandhi
Author
PublisherMafatlal Zaverchand Gandhi
Publication Year1940
Total Pages156
LanguageSanskrit
ClassificationManuscript
File Size13 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy