SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ कुमार० ॥ ६७ ॥ स्वामी श्रेष्ठछाडाकः, राजदौहित्रिकः प्रतापमल्लः, १८०० व्यवहारिणः, श्रीहेमसुरयः, अन्येपि लोका ग्रामनगरस्थाननिवासिनो बहवः, षड्दर्शनानि, बहवो बंदिजनाः, स्थाने स्थाने प्रभावनां जिनछत्रचामरादिप्रदानं, स्थाने स्थाने स्नात्रपूजाः, याचकानां मनोवांछिता सिद्धिः एवं परिवृतः प्रभ्रुणा द्विधोपदिश्यमानवर्त्मना धंधुकपुरे प्राप्तः प्रभ्रूणां जन्मगृहभूमौ स्वयंकारित स दशहस्तप्रमाणे झोलिकाविहारे प्रभावनां विधित्सुर्जातिपिशुनानां द्विजातीनां उदितमुपसर्ग वीक्ष्य तान् विषयताडितान् कुर्वन् श्रीशत्रुंजयतीर्थं प्राप । पादचारेण पर्वताधिरोहणं श्रीजिनेन्द्रप्रासादद्वारे सपादसतिकामोक्तिकैः प्रासादद्वारवर्धापनकं मध्ये प्रदक्षिणाश्रयं । प्रथमपूजायां नवांगेषु नवरत्नानि लक्षमूल्यानि अष्टाविकामहोत्सवः । सुवर्णरूप्यादिसप्त ध्वजाप्रदानं चैत्य परिपाट्यां वामहस्तः श्रीगुरुणां हस्ते लग्नो वीक्ष्य कपर्दी प्राह "श्री चौलुक्य ! स दक्षिणस्तवकरः पूर्व समासूत्रितः - प्राणिप्राणविघातपातकसखः शुद्धो जिनेंद्रार्चनात् । वामोप्येष तथैव पातकसखः शुद्धिं कथं प्राप्नुयात्, न स्पृश्येत करेण चेत् यतिपतेः श्रीहेमसूरिप्रभोः ॥ १ ॥ प्रमुदितो राजा । अवारितान्नदानयाचकसत्काराः प्रवर्त्तते । मालोद्घट्टनप्रस्तावे उदयनसुतादिमहापुरुषसंघश्रेणिभृति धर्मशिलायां महं वागभटः प्रथमं लक्षचतुष्कमवदत् प्रच्छधार्मिकः कश्चित्कथापयति अष्टौलक्षाः एवमन्योऽन्येषु ईश्वरेषु वर्द्धयत्सु कश्चित्सपादकोटीं चकार । चमत्कृतो राजोवाच उत्थाप्यतां स यो गृह्णाति । उत्थितः स यावत् दृश्यते बादरमलिनवसानो वणिगुरूपो विलोकितः । राज्ञा वाग्भटो भाषितः द्रव्यप्रगुणीकृत्वा देहि, श्रीवाग्भटो वणिजा सहोत्थाय द्रव्यसुस्थं पप्रच्छ । वणिजा सपादकोटिमूल्यं माणिक्यं दर्शितं । मंत्रिणा पृष्टं कुत इदं ते । वणिगाह महूअकवास्तव्यो मत्पिता हांसाख्यः सौराष्ट्रिकः प्राग्वटान्वयः अहं तद्भूर्जगडः माता मेधा Jain En Intemational For Personal & Private Use Only प्रतिबोध प्रबंधः ॥ ६७ ॥ elibrary.org
SR No.600191
Book TitleKumarpal Pratibodh Prabandh
Original Sutra AuthorMafatlal Zaverchand Gandhi
Author
PublisherMafatlal Zaverchand Gandhi
Publication Year1940
Total Pages156
LanguageSanskrit
ClassificationManuscript
File Size13 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy