SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ कुमार० प्रबंध: ॥६४॥ परं युगादौ प्रथमपुरुषेण ज्ञातत्रैलोक्यस्वरूपेण प्रथमं चतुर्दशस्वराष्टत्रिंशद्वयंजनरूपा द्विपंचाशदक्षरप्रमाणा मातृकैवोपदिष्टा सा च प्राकृतस्वरूपा । सर्वप्रकृतिलोकानामुपकारिणीति । ततो बाह्या येऽष्टत्रिंशद्वर्णास्तैः संस्कारे कृते संस्कृतं जातं । ततश्च अनेकभाषाभेदाऽभूवन् । तेन सकलशास्त्रमूलं मातृकारूपं प्राकृतमेव प्रथमं । युगादौ सर्वज्ञैरिति लोकोपकाराय प्रथमं प्राकृतमुपदिष्टं । सर्वाक्षरसन्निपातलब्धीनां श्रीद्वादशांगीनिर्माणसूत्रधाराणां श्रीगणधराणां सिद्धांतप्राकृतकरणे कारणमिदं। बालस्त्रीमूढमूर्खाणां, नृणां चारित्रकांक्षिणां । अनुग्रहार्थ तत्त्वज्ञैः, सिद्धांतः प्राकृतः कृतः ॥१॥ राजन् ! भवतु भाषायामपि सापि परं परमार्थ एव लोक्यते। यत् पठन्ति लोकाःअत्थि निवे सा तत्थ य, सदा तत्थेव परिणमन्ति । विउत्ति विसे सोकतं, भासा जा होउ सा होउ ॥१॥ परं कस्यापि ज्ञानलवदुर्विदग्धस्य खंडखंडपाण्डित्यतुंडकंडूकरालितस्याऽयं प्राकृतनिदायां युक्तं'सा होई सुहावेइ उव, भुंजत्येलर्वे विलत्थीए । एसा सरस्सह पुण असमग्गा कं नवि नडेइ ॥१॥ इति श्रुत्वा राजादयः सर्वेऽपि प्राकृतप्रशंसां कुर्वन्तो विशिष्य तदर्थश्रवणप्रवणा बभूवुः । एवं श्रीहेमसूरिभिरनेके कुतीथिनः प्रवादाः सज्जनसभायां निरुत्तरीकृताः श्रीसर्वज्ञशासनस्यैकातपत्रं साम्राज्यं कारितं । राजप्रतिबोधश्च कृतः। अथान्यदा राजा श्रीजिनशासनप्रभावनां कर्तुकामः संघाधिपतिमनोरथमकरोत् । प्रथमं श्रीतीर्थमहिमा श्रीगुरवः प्राहुः राजन् ! त्रिभुवनेऽपि श्रीजिनमयानि तीर्थानि सन्ति यदुक्तं-श्रीभद्रबाहुस्वामिना चतुर्दशपूर्वधरेण श्रीआचारांगनियुक्तो ॥६४॥ जम्माभिसेय निक्खमण, चवणनाणुप्पयाय। निव्वाणे दियलोयभवणमंदरनंदीसरभोमनगरेसु ॥१॥ MAnorary.org Jan E inemational For Personal & Private Use Only
SR No.600191
Book TitleKumarpal Pratibodh Prabandh
Original Sutra AuthorMafatlal Zaverchand Gandhi
Author
PublisherMafatlal Zaverchand Gandhi
Publication Year1940
Total Pages156
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy