________________
केवलज्ञाने दशमजिने धर्म प्रकाशयति गृहारंभे प्रवृत्तोऽब्रह्मचारी गुरुर्न भवति इत्युक्ते तेषां जिनधर्मे च महान् द्वेषोऽभूत् । लोकानामपि मूढमतीनां द्वेषमुत्पादयन्ति । ततः कालेन मिध्यात्वं गताः । यदुक्तं -
"समवसरण भत्त उग्गह, अंगुलिझय सक सावया अहिया । जं आवट्टइ कागिणि लंछण, अणुमज्जणा अट्ठ" ॥१॥ "अस्सावग पडिसो हो, छट्ठे छट्ठे य मासि अणुओगो । काले य मिच्छत्तं, जिणंतरे साहुवुच्छेउ" ॥२॥
इति द्वेषकारणं ब्राह्मणानां श्रुत्वा राजा चिंतयदहो चंद्रमण्डलादग्निः सुधाकुण्डाद्विपं प्रादुरभूत् । लोकानामभाग्योदयेन श्रीजिनधर्मान् मिथ्यात्वमभूदिति । श्रीगुरवः प्राहुः राजन् एते तु दर्शनांतरं प्रतिपन्नाः सन्ति । कालेन केsपि निवाः केsपि निवाभासाः श्रीजिनवचनान्यथावादिनः स्वमतिप्रकल्पितमतपक्षपातिनः साधुवेषधारिणोऽपि साध्याभासा प्रमादशीलत्वेनांलबनपराः परलोकनिरपेक्षा अनेकधा मतभेदानकार्षुः एवं राजन् स्वमतेऽप्यनेकमतिभेदा अभिमानाज्ञान परवशैः प्रकल्पिताः सन्ति ।
अन्यदा कोsपि मत्सरी श्री हेमसूरेः तेजोऽसहिष्णुरेकांते राजानमिदमवादीत् देव ! प्रायः प्राकृतमेते पठन्ति सिद्धांतोऽप्येषां प्राकृतमयः तत्प्रभाते न श्रोतव्यमिदं, संस्कृतं स्वर्गीणां भाषा, सैव महतां प्रत्यूषे श्रोतव्या श्रेयस्करी चेति किमर्थं प्रथमं तच्छवणं विधीयते । एतदाकर्ण्य राजाऽविज्ञातभाषाभेदतच्चः किंचित् प्राकृते कृतादरः तत्स्वरूपं श्रीगुरूणामकथयत् । श्रीगुरवः प्राहुः अनुपासितसद्गुरुकुलस्य अविज्ञातवाङ्मयतत्त्वस्य कस्याऽपीदं वचः । राजन् ! अनेकधा भाषाभेदवैचित्र्येऽपि
For Personal & Private Use Only
Jain Educemational
brary.org