SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ कुमार प्रतिबोध ॥६३॥ पुरुषैरपि समागत्य तथैव प्रोचुः । सर्वेषां महान् विस्मयोऽभूत् अहो! श्रीगुरूणां काऽपि महती शक्तिः । अहो जैनानां कोऽपि महामहिमा लोकोत्तर इति जनोक्तिरभूत । अथ राजा तेषां विप्रादीनां च्छलवचनं स्मरन् श्रीगुरूणां पुरः प्रश्नमकरोत् भगवन् ! सत्स्वपि बहुदर्शनेषु ब्राह्मणानां कस्माजिनधर्मे महान् द्वेषः । तत्र श्रीगुरुः प्राह राजन् पुरा प्रथमजिनो युगादौ विहरन् विनीतासन्ने पुरिमताले पुरे सम| वसृतः । भरतचक्री जिनस्याष्टौनवतिभातृसाधूनामागमनं श्रुत्वा खादिमादिशकटानि भृत्वा तत्र गतः । प्रभुं प्रणम्य धर्मदेशनां श्रुत्वा भक्ताद्यर्थ साधूनां निमंत्रणामकरोत् । श्रीभगवान् प्राह राजन् ! आधाकर्मिकाभ्याहृतराजपिण्डादिदोषदूषितमिदं भक्तादि साधूनामकल्प्यमिति श्रुत्वा दूनं श्रीभरतं ज्ञात्वा शक्रः प्राह-मा विषादं कुरु सर्वज्ञशासने सप्तक्षेत्राणि सन्ति श्रीजिनभुवन-जिनबिम्ब-जिनागम-चतुर्विधसंघरूपाणि । तत्र ये साधर्मिका गृहारंभपराङ्मुखाः संयमपरिणामभाजः संवेगवैराग्यजुषस्तेषां वात्सल्यं कुरु । इति सुरेन्द्रवचः श्रुत्वा राजा भरतः पूर्वानीतवस्तुभिः साधर्मिकवात्सल्यमकरोत् । तेषां गृहारंभादिकं निवार्य वृत्तिमकार्षीत् । गृहस्थाचारविचारं चतुरध्यायनिबद्धं श्राद्धं श्रावकप्रज्ञप्तिग्रंथमर्थतो जिनप्रणीतं । देशविरतास्ते पठंति "मा हन मा हन" इति परेषां कथयन्ति ते माहना इति लोके प्रसिद्धिमगुः । कालेन तेषां वृद्धिरभूत् । ततः षष्ठे षष्ठे मास्याचारग्रंथपठनादिकां परीक्षां कृत्वाऽयं ज्ञानदर्शनचारित्राचारशुद्ध इति काकिण्या रत्नेन कण्ठे रेखात्रयं कृतं । ततः कालेन परीक्षापूर्व कनकसूत्रत्रयं क्रमेण रौप्यं जातं । ततः कालेन नवमदशमजिनयोरंतरे सकलसाधुव्युच्छेदे सति सर्वेषां लोकानामपरधर्मप्रकाशकाभावादेते गुरवः संजाता। क्रमेणाऽब्रह्मचारिणः कण्ठे सूत्रत्रयधारिणश्चाऽभूवन् । ततः क्रमेणोत्पन्न W ॥६३॥ Jain Intematonai For Personal & Private Use Only ibrary.org
SR No.600191
Book TitleKumarpal Pratibodh Prabandh
Original Sutra AuthorMafatlal Zaverchand Gandhi
Author
PublisherMafatlal Zaverchand Gandhi
Publication Year1940
Total Pages156
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy