SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ मयैव साधीयान् द्रव्यव्ययः क्रियते इति वदन् प्रमुदितेन राज्ञा सत्कृतः। संसद्यनयंतां लभमानो राजघरट्टविरुदं लब्ध्वा नृपतिविसृष्टः स्वं पदं प्रपेदे, सप्तशतीतन्तुवायानां छत्राऽधःस्नानं काराप्य पवित्रीकृताः, तस्य भ्राता स्वकीयौदार्यावजितसमस्तराजवर्गः सोलाकः सामंतमण्डलीसत्रागारमिति विरुदं बभार । अथान्यदा राजा सप्ततिसामंतैः सहितः श्रीगुरूणां पार्श्वे धर्मदेशनामशृणोत् । "भवेह अणिञ्चत्तं जुब्वण, धणसयणअत्थदाराणां । देहस्स जीवियस्स य इक्कंपि न पिच्छहे निश्चं' ॥१॥ | ___ इत्यादि श्रुत्वा राजा संसाराऽसारतां विभाव्य भवभावविमुखपरिणामः संवेगरसरंगितांतःकरणः श्रीगुरून् प्रणम्य पप्रच्छ भगवन् ! अद्य का तिथिरिति ? श्रीगुरवः सहसाऽमावास्यादिने पूर्णिमेत्याहुः । अत्र वामराशिर्लब्धावकाशो मिथ्याग् बाह्यमित्रोऽप्यांतरशत्रुराह 'अहो ! कलिकालसर्वज्ञः श्रीहेमसूरिश्वेदद्य पूर्णिमां कथयति तदा लोकानां भाग्येन पूर्णिमैव भविष्यति । इत्युपहासगर्भ वचः श्रुत्वा श्रीगुरवः प्राहुः सत्यमेतद् भवद्वचः । तेनोक्तं कोत्र प्रत्ययः ? श्रीगुरुभिरुक्तमहो! केयं भवतश्चातुरी चंद्रोदय एव प्रत्ययः। इति श्रुत्वा सर्वेऽपि विस्मयस्मेराः परस्परमाहुः, किमित्थमपि भविष्यति? ततो राजा विस्मयगतस्वान्तवामराशिद्वासप्ततिसामंतादिवृतो राजसभामागत्य व चंद्रोदयो भविष्यतीति परिज्ञानाय घटीयोजनगामिकरभ्यारूढान् निजपुरुषान् पूर्वस्यां दिशि प्राहिणोत् । ततः श्रीहेमसूरिः पूर्वप्रदत्तवरसिद्धचक्रदेवप्रयोगेन पूर्ववत् पूर्वस्यां दिशि संध्यासमये चंद्र उदयं कृत्वा सकलां रात्रिं IM ज्योत्स्नामयीं विधाय चतुरो यामान् गगनतलमवगाह्य सर्वलोकसमक्षं प्रत्यूषे पश्चिमायां गतोऽस्तमगात् । प्रभाते प्रेषित in E inemational For Personal & Private Use Only wi brary.org
SR No.600191
Book TitleKumarpal Pratibodh Prabandh
Original Sutra AuthorMafatlal Zaverchand Gandhi
Author
PublisherMafatlal Zaverchand Gandhi
Publication Year1940
Total Pages156
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy