________________
कुमार०
प्रतिबोध प्रबंधः
॥६
॥
कपर्दकमुप्तं । पुरा मालवीयनृपैगुर्जरदेशे प्रासादाः पातिताः । पापमीरुणा श्रीकुमारपालेन तु रुषा मालवके तिलेक्षुपिषणपापाणयंत्राणि भग्नानि । भनास्ते घाणका अद्यापि संति स्थाने स्थाने दृश्यते । _ ततो ववले परराष्ट्रमर्दनः श्रीचोलुक्यनृपः समायातः श्रीपतने श्रीगुरूणां पादारविंदान् पर्युपास्ति सामायिकपौषधादि करोति । स्वपरदेशेषु नवीनजीर्णोद्धारप्रासादकरणेषु महाप्रयत्नमकरोत् ।
अथ सौराष्ट्रदेशीयेन मुरांकेन राज्ञा प्रच्छन्नं गृहमध्ये प्रविश्य अजा व्यापादिता । कंटेश्वर्या देव्या राज्ञे निवेदितं । तं नृपं विग्रहीतुं श्रीमानुदयनमंत्रिणं सेनानायकं कृत्वा सहस्रकटकबंधेन प्राहिणोद्राजा । स तु पादलिप्तपुरे श्रीवर्धमानं नत्वा श्रीयुगादिदेवं निनसुः पुरः प्रयाणकाय समस्तमण्डलेश्वरानादिश्य स्वयं श्रीशत्रुजयं जगाम । विशुद्धश्रद्धय स्नात्रपूजारात्रिकादिकं विधाय यावच्चैत्यवंदनां विधते । तावत् प्रदीपवतिमादाय मूषकः काष्टमयप्रासादबिले प्रविशन् देवाङ्गपूजकैस्त्याजितः। तदनु स मंत्री समाधिभंगात् काष्ठमयप्रासादविनाशसंभवात देवाशातनां विमृश्य जीर्णोद्धारं चिकीर्षुःश्रीदेवपादानां पुरतो ब्रह्मैकभक्तभूशयनतांबूलात्यागादिकानभिग्रहान् जग्राह । यतः
"एकोऽपि नियमो येन, गृहीतो गृहमेधिना । जिनाज्ञा पालिता तेन, भवाकूपारपारदा" ॥१॥
ततः कृतप्रयाणः स्कंधावारमुपेत्य सेन प्रत्यर्थिना समरेण सह संगरे संजायमाने स्वसैन्ये भग्ने स्वयं संग्रामं कुर्वाणो रिपुप्रहारजर्जरितशरीरो मंत्री रणभूमौ पतितः सकरुणं क्रंदन केनाऽपि बुद्धिमतांगरक्षकेण दुःखकारणं पृष्टः स्वमनसः शल्यचतुष्टयं प्राहा
१ आंबडस्य दंडनायकत्वदापनं। २ श्रीश@जयप्रासादपाषाणमयनिर्मापणं ।
॥६
॥
Jain Ed
i ntematonai
For Personal & Private Use Only
wi
brary.org