________________
कुमार०
॥ ५९ ॥
Jain Edu
जानासि मम भ्रातरं राजराक्षसं । क्रुद्धो राजा पादघातेन तां जघान । साऽपि आह यदि रे ! तव जिह्वामवटमार्गेण नाकर्षयामि तदा राजपुत्रीं मां मा मंस्थाः । इति वदन्ती एव सा ससैन्येननिर्विलंचं श्रीपत्तनमागत्य श्री चौलुक्यायातं परिभवं स्वप्रतिज्ञां च व्यजिज्ञपत् । राजाऽपि अभाषत पश्य कौतुकमित्थमेव करिष्यामः ।
ततश्चानाकस्तस्यां तत्र गतायां गूर्जरनृपं दुर्धरं विदन् क्षुभितः कुलमायातं स्वसेवकं व्याघ्रराजं दीनारलक्षत्रयं दत्वा भरडकवेषधारिणं श्रीकुमारपालस्य मारणाय प्रैषीत् । एतत्स्वरूपं पूर्व आनाकप्रपंच परिज्ञानाय भूपतिप्रेषितप्रधानपुरुषः प्रीतिप्रीणिता नाकदासीमुखेन ज्ञात्वा विज्ञप्त्या श्रीकुमारपालायऽज्ञापयत् । सावधानैः स्थेयं भरटकविश्वासो न कार्य इति । ततो राजाऽन्यदा लोकव्यवहारेण कर्णमेरुप्रासादे नवीनं भरटकं प्रधानज्ञापितचेष्टया दृष्टमात्रमेवोपलक्ष्य निजपुरुषैर्बद्ध्वा व्याघ्रसंज्ञं प्रकटीकृत्योरुबद्धांक्षुरिकां प्राह रे वराक जंगड ! केन प्रेषितोऽसि १ । सेवकस्य विचाराविचारो नास्ति हिताहितस्य । स्वाम्यादेशवशंवदस्त्वं मा भैषीर्मुक्तोऽसि तमेव हनिष्यामि य एव द्रोहमकरोत् ।
ततः समस्तस्वसैन्यपरिवृतः सपादलक्षदेशसीम्नि गतः श्रीकुमारपाल भट्टेनानाकनृपः प्रोक्तः । “अये भेक ! छेको भव भवतु ते कूपकुहरं, शरण्यं दुर्मत्तः किमु रटसि वाचाटकटुकं ? । पुरः सर्पोदप विषमविषफुत्कारवदनो, ललज्जिहो धावत्यहह भवतो जिग्रसिषया" ॥१॥ एतदाकर्ण्यानाकोऽपि वाजिलक्षत्रयेण पदातिलक्षदशकेन अष्टशतगजैः संमुखमचलत् । स्वदेशतः पंचकोश्या अर्वाक् मेलापकः, तृतीयदिने युद्धं भविष्यतीति निर्णये बहुद्रव्यप्रदानेन परावर्त्तितं रात्रौ चौलुक्यसैन्यं, अर्थो हि परावर्त त्रिभुवनं यतः --
For Personal & Private Use Only
१) प्रतिबोध प्रबंध:
॥ ५९ ॥
ww.brary.org