SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ कुमार० प्रतिबोध ये तु वणिगब्राह्मणादयोऽज्ञातमांसास्वादास्तेषां भक्ष्याः' इत्याकर्ण्य मुदितः अहो! प्रभूणां युक्ता कलिकालस प्रबंधः मानसिकपारणामोऽपि येषां प्रत्यक्षः। ततो राजा दंतपातनसोद्यतः श्रीगुमिनिषिद्धः॥ कृतघेवरभक्षणनियमः प्रायश्चित्तपदे द्वात्रिंशत्प्रासादानेकस्मिन्पीठबंधेऽकारयत् । द्वात्रिंशत् प्रकाशान् प्रत्यहं गुणयति प्रत्यूषे । अन्यदा एकस्मिन् ग्रामे तैलिकेन रात्रौ युका हता, कटेश्वर्या राज्ञो ज्ञापिता । स दण्डितस्तद्रव्येण यकावसति कारिता । पुरा गृहीतेनाऽखुद्रव्येणाऽखुवसतिश्च । यस्याः करेण पुरा करंबो भुक्तः तस्या देवश्रियो नाम्ना करंबावसतिः । अथ श्रीस्तंभतीर्थेशमान्ये आलिगवसहिकाप्रासादे यत्र दीक्षाक्षणः प्रभूणां बभूव तत्र रत्नबिम्बालंकृतो निरुपमो जीर्णोद्धारः कारितः। अन्यदा ब्रह्मकविः कृतकृत्रिमदेवरूपः केनाऽपि अनुपलक्ष्यमानः करे गृहितलेखपत्रः सभायां समेतः । कृतः प्रणामः पृष्टो राज्ञा भोः ! कस्त्वं कुतः समायातः । तेनोक्तं देव ! देवेन्द्रेण प्रेषितोऽस्मि युष्मदंतिके लेखसमर्पणाय इति उक्त्वा लेखं समर्पितवान् । सभायां लेखः प्रस्फोटथ वाचितः । यथा:-स्वस्तिश्रीमति पत्तने नृपगुरुंश्रीहेमचंद्रं मुदा, स्वःशक्रः प्रणिपत्य विज्ञपयति स्वामिंस्त्वया सत्कृतम्।। . चंद्रस्यांकमृगे यमस्य महिषे यादस्सुयादापते-विष्णोर्मत्स्यवराहकच्छपकुले जीवाऽभयं तन्वता ॥१॥ 'तस्य राजा लक्षं पारितोषिकमदात् । Jain Edu a temational For Personal & Private Use Only wi brary.org
SR No.600191
Book TitleKumarpal Pratibodh Prabandh
Original Sutra AuthorMafatlal Zaverchand Gandhi
Author
PublisherMafatlal Zaverchand Gandhi
Publication Year1940
Total Pages156
LanguageSanskrit
ClassificationManuscript
File Size13 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy