________________
प्रेणिकः।
SAKXEXX.KKKKKAKKKKKRRRREKXX
शुश्राव ततस्तामेव कंटकेश्वरी मंत्रयंत्रितां च पश्यति । तावता सा उवाच 'राजन् ! मोचापय मां सरिप्रयुक्तमंत्रबंधनात् तवाज्ञावधिदेशेषु जीवरक्षातलारकत्वं करिष्यामीति' । श्रीगुरुवचसा मोचिता ।
कवयः सर्वे स्वमातिभिः प्रोचुः"श्रीवीरे पारमेश्वरेऽपि भगवत्याख्याति धर्म स्वयं । प्रज्ञावत्यभयेऽपि मंत्रिंणि न य अक्लेशेन कुमारपालनृपतिस्तां जीवरक्षा व्यधात्, यस्यासाद्य वचः सुधां स परमः श्रीहेमचंद्रो गुरुः"॥
"पातु वो हेमगोपालः कंबलं दंडमुद्वहन् । षड्दर्शनपशुग्राम, चारयन जैनगोचरे" ॥२॥ "नाभवद्गविता नैव हेमसूरिसमो गुरुः । श्रीमान् कुमारपालश्च, जिनभक्तो महीपतिः" ॥३॥ "राजा लुठति पादाग्रे, जिह्वाग्रे च सरस्वती । शश्वत् स श्रेयसे श्रीमान् , हेमसूरिनवः शिवः"॥४॥
"सप्तर्षयोऽपि गगने, सततं चरंतो, मोक्तुं क्षमा नहि मृगी मृगयोः सकाशात् ।
जीयात् पुनश्चिरतरं प्रभुहेमसूरि-रेकेन येन भुवि जीववधो निषिद्धः" ॥५॥ "प्राणित्राणे व्यसनिनां, शान्तिसुव्रतनेमिनां । हेमाचार्योऽत्र चातुर्ये, तुर्यः किंतु स दुर्युगे" ॥६॥ सर्वेषां कवीनां लक्षंलक्षं ददौ ।
अथान्यदा भोजनं कुर्वतो राज्ञो घेबरभुक्तौ किंचित विचिंत्य कृतसकलाहारपरिहारः पवित्रीभय इति प्रमं पप्रच्छ भगवन् ! घेबराः किं भक्ष्या वाऽभक्ष्याः। श्रीगुरुभिरुक्तं राजन् ! भक्ष्या अभक्ष्याश्चेति भणितं । पुनर्भगवन् । भक्ष्याश्चेत् अभक्ष्याः कथम् ? अभक्ष्याश्चेत् भक्ष्याः कथम् । श्रीगुरुभिरभाणि--'राजन् ! ये क्षत्रियादयः पूर्वज्ञातमांसास्वादास्तेषामभक्ष्या
सातारा
Jain Ed
ntematonai
For Personal & Private Use Only
wwgkRibrary.org