SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ __ अथ संवत बारसोलोत्तरा वर्षे मार्गशुक्लद्वितीयायां लग्ने बलवति संवेगमत्तंगजारूढो, रत्नत्रयवस्त्रालंकृतो, दक्षिणपाणिवद्धोरुदानकङ्कणः, सम्यक्त्वानुचरेण समं, श्रद्धासहोदर्याकृतलवणावतारो, गुरुभक्तिदेशविरतिजानिणीभ्यां दीयमानधवलमंगलः, पौषधवेश्मद्वारि अनुकंपाकन्याजनन्या कृतप्रोखणः, श्रीमन्महादेवार्हतः साक्षि स नृपतिरहिंसायाःप्राणि जग्राह । तदा तारामिलनपर्व । अथ षट्त्रिंशत्सहस्रप्रमाणं त्रिषष्ठिचरितं नवांगदेवीमहोत्सवादानीय वेदिपद्या स्थाने कपईप्रत्येक विंशतिः वीतरागस्तवाः । तस्यैकस्यां वेदिकायां वंश ३ तथैकं शमीकाष्ठं तत्पदे श्रीयोगशास्त्रप्रकाश १२ तथा लक्षणसाहित्यतर्केतिहासप्रमुखशास्त्ररचनाभिर्मूलोत्तरगुणाभ्यां च दृढीकृत्य वेदिकायां ज्ञानाऽनलमुद्दीप्य तत्परितो मंडलचतुष्टयदापनं चत्तारिमंगलमित्यादि, द्वासप्ततिलक्षप्रमाणरुदतीद्रव्यकरमोचनं तस्याः कन्यायाः मुखमण्डने दत्तं । तत्कालमेव तस्याः पट्टबंध कारयित्वा तत्पितुर्योग्यान आवासान् विहारान् १४४४ कारयामास । - ततः सा हिंसा स्वसपत्न्याः अहिंसायाः परमोन्नतिं तद्विधामालोक्य भर्तुः पराभवनिवेदनाय पितुर्धातुः समीपे समु पागता । चिरदर्शनात् अभिभवविरूपत्वाच अनुलक्षिता तेनेत्यभिदधे। * का त्वम् सुंदरि? मारिरस्मि तनया ते तात धातः प्रिया। किं दीनेव पराभवेन स कुतः किं कथ्यतां कथ्यतां ॥ "हेमाचार्यगिरा परार्धगुणभाक् हृद्वक्त्रहस्तोदरात् । मामुत्तार्य कुमारपालनृपतिः क्षोणीतलादाकृषत्" ॥१॥ - इति तद्भणितेरनंतरं श्रीकुमारपालदेवस्य सत्यप्रतिज्ञस्यापि तस्य लिङ्गिनो गिरा त्वयि विरक्तचित्ततां विमृश्यऽतः परं भवत्याः स कोपि वरः प्रवरः करिष्यते । यस्तववेकातपत्रं कुरुते । धीरा भवतां संबोध्य स्वसमीपे स्थापयांचक्रे । Jain Ede emational For Personal & Private Use Only www brary.org
SR No.600191
Book TitleKumarpal Pratibodh Prabandh
Original Sutra AuthorMafatlal Zaverchand Gandhi
Author
PublisherMafatlal Zaverchand Gandhi
Publication Year1940
Total Pages156
LanguageSanskrit
ClassificationManuscript
File Size13 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy