SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ __ अथ संवत बारसोलोत्तरा वर्षे मार्गशुक्लद्वितीयायां लग्ने बलवति संवेगमत्तंगजारूढो, रत्नत्रयवस्त्रालंकृतो, दक्षिणपाणिवद्धोरुदानकङ्कणः, सम्यक्त्वानुचरेण समं, श्रद्धासहोदर्याकृतलवणावतारो, गुरुभक्तिदेशविरतिजानिणीभ्यां दीयमानधवलमंगलः, पौषधवेश्मद्वारि अनुकंपाकन्याजनन्या कृतप्रोखणः, श्रीमन्महादेवार्हतः साक्षि स नृपतिरहिंसायाःप्राणि जग्राह । तदा तारामिलनपर्व । अथ षट्त्रिंशत्सहस्रप्रमाणं त्रिषष्ठिचरितं नवांगदेवीमहोत्सवादानीय वेदिपद्या स्थाने कपईप्रत्येक विंशतिः वीतरागस्तवाः । तस्यैकस्यां वेदिकायां वंश ३ तथैकं शमीकाष्ठं तत्पदे श्रीयोगशास्त्रप्रकाश १२ तथा लक्षणसाहित्यतर्केतिहासप्रमुखशास्त्ररचनाभिर्मूलोत्तरगुणाभ्यां च दृढीकृत्य वेदिकायां ज्ञानाऽनलमुद्दीप्य तत्परितो मंडलचतुष्टयदापनं चत्तारिमंगलमित्यादि, द्वासप्ततिलक्षप्रमाणरुदतीद्रव्यकरमोचनं तस्याः कन्यायाः मुखमण्डने दत्तं । तत्कालमेव तस्याः पट्टबंध कारयित्वा तत्पितुर्योग्यान आवासान् विहारान् १४४४ कारयामास । - ततः सा हिंसा स्वसपत्न्याः अहिंसायाः परमोन्नतिं तद्विधामालोक्य भर्तुः पराभवनिवेदनाय पितुर्धातुः समीपे समु पागता । चिरदर्शनात् अभिभवविरूपत्वाच अनुलक्षिता तेनेत्यभिदधे। * का त्वम् सुंदरि? मारिरस्मि तनया ते तात धातः प्रिया। किं दीनेव पराभवेन स कुतः किं कथ्यतां कथ्यतां ॥ "हेमाचार्यगिरा परार्धगुणभाक् हृद्वक्त्रहस्तोदरात् । मामुत्तार्य कुमारपालनृपतिः क्षोणीतलादाकृषत्" ॥१॥ - इति तद्भणितेरनंतरं श्रीकुमारपालदेवस्य सत्यप्रतिज्ञस्यापि तस्य लिङ्गिनो गिरा त्वयि विरक्तचित्ततां विमृश्यऽतः परं भवत्याः स कोपि वरः प्रवरः करिष्यते । यस्तववेकातपत्रं कुरुते । धीरा भवतां संबोध्य स्वसमीपे स्थापयांचक्रे । Jain Ede emational For Personal & Private Use Only www brary.org
SR No.600191
Book TitleKumarpal Pratibodh Prabandh
Original Sutra AuthorMafatlal Zaverchand Gandhi
Author
PublisherMafatlal Zaverchand Gandhi
Publication Year1940
Total Pages156
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy