________________
कुमार०
॥ ५२ ॥
ततः श्रीगुरुवचसा व्यसनानि मुक्तानि श्राद्धैः शंबलादिकं दत्तं । शनैः शनैः प्राप्तप्रतिबोधो नवलक्षतिलंगे देशे प्रतिबोध लंगलपुरे ओढरवणिग्गृहे भोजनादिवृत्याऽस्थात् ।
एकदा पर्युषणपर्वणि स श्रीमानुदरः श्रावकः पुत्रपौत्रमित्रादिपरिकरः प्रधानपूजोपकरणः श्रीजिनगृहमगात् । तत्र विधिना जिनस्य स्नात्रं विधाय पूजात्रसरे जयताकं प्राह - "गृहाणेदं पुष्पादिकं कुरु जिनेंद्रपूजां गृहाण स्वजन्मजीवितफलं" । ततः स तदाकर्ण्याऽचिंतयत्-- अदृष्टपूर्वोऽयं देवः परमेश्वरः प्रसन्नवदनः नासाग्रन्यस्तदृग् परमयोगमुद्रासीनः नीरंजनस्वरूपः तत्कथं परकीयैः पुष्पैः पूज्यते ? I ततः स्वकीयपंचवराटकक्रीतपुष्पैः पूज्यते । ततः स्वकेयपंचवराटकक्रीतपुष्पैरानंदाश्रु प्लावितदृग् प्रसन्नमनोवाक्कायः पारमैश्वरीं पूजामकरोत् । ततोsहो यद्येते भोगभाजोऽपि व्यवहारिणोऽद्य तपः कुर्वति । ततः पुण्यमद्यतनं दिनमित्यहमपि विशेषतस्तपः करोमीति । गुरूणां मुखेनोपवासमकरोत् । प्रभाते विशुद्धश्रद्धया साधूनां दानमदात् । ततः स्त्रं कृतार्थं मन्यमानः कृतपुण्य सन् मृत्वा त्वं त्रिभुवनपालपुत्रो जातः, उढरश्रावकस्तु उदयनमंत्री, यशोभद्रसूरयस्तु वयं । त्वं पुनरितो निजायुः प्रांते महर्द्धिकव्यंतर देवत्वमधिगम्य ततश्युत्वा च अत्रैव भरतक्षेत्रे भद्दिलपुरे शतानंदनृपधारिण्यो पुत्रः शतबलाह्नः पैत्रिक राज्यमवाप्य भाविश्रीपद्मनाभजिनेंद्रधर्मदेशनां श्रुत्वा प्रतिबुद्धः परित्यक्तराज्यलक्ष्मीः प्रव्रज्य एकादशमगणधरो भूत्वा केवलज्ञानमासाद्य मोक्षं यास्यसि । एतन्निशम्य राजा विस्मितः प्राह-भगवन् ! कोऽत्र प्रत्ययः ! श्रीगुरुभिरूचे राजन् ! अद्याप्योढारवंशीयाः सति । उलंगलपुरे तेषां गृहे जीर्णदासी पूर्ववृत्तान्तान् जानाति । सा गत्वा पृष्टा सती सर्व कथयिष्यति । ततो राज्ञा निजपुरुषैस्तत्सर्वं स्वरूपं ज्ञातं दास्या जयताकभवसत्कं, ज्ञातं विजयसिंहदेवेन सह वैरकारणं, चिंतितं च निजमनास अहो वैरकारणं, दारुणः संसारः आत्मनः । ततो
For Personal & Private Use Only
Jain Edula Intemational
॥ ५२ ॥
library.org