________________
'मणपरमोहि पुलाए आहारखवगउवसमे कप्पे । संयमतियकेवल सिज्झणा य जंबूमि बुच्छिन्ना ॥ १ ॥
सह प्रकर्षेण सर्व पूर्वगतं श्रुतं व्यवच्छिन्नं, संप्रति तु अल्पं श्रुतं, तथाऽपि देवतादेशेन विज्ञाय किमपि कथयिष्यते । ततो रात्रौ शुभध्यानस्थिताः समायातः पूर्वाराधितश्रीसिद्धचक्रसुरः पृष्टो राज्ञः पूर्वभवं तेन निवेदितं सर्वभवस्वरूपं ।
ततः प्रभाते राज्ञः समग्रसभासमक्षं कथितं । यथा- राजन् ! पूर्वभवे मेदपाटपरिसरे जयपुरे जयकेशी राजाऽभूत् तत् पुत्रो जयताकः सप्तव्यसनवान् पित्रा निष्काशितो मेदपाटपरिसरे पर्वतश्रेण्यां पल्लीपतिर्जातः । अन्यदा नरवीरस्य सार्थ - वाहस्य सार्थः सर्वेऽपि लुण्टितः तेन, सार्थवाहस्तु मालवदेशं गत्वा तत्र राजानं विज्ञाप्य सैन्यमानीय पल्लीमवेष्टयत् । तन्महद्बलं मत्वा जयताको नष्टः । नरवीरेण वणिजा पल्ल्यां कीटमारिः कारिताः । तत्पत्नी सगर्भा हता । भूपतितो बालः शिलायामास्फालितः । ततो मालवकदेशे राज्ञोऽग्रे स्वरूपे निरूपिते राज्ञा हत्याद्वयं - स्त्रीबालरूपं तव लग्नं । अतोऽयं अद्रष्टव्यमुखोस्तीति निष्काशितः स्वदेशात् । स च सार्थवाहो नरवीरः पदे पदे लोकैर्निद्यमानः पश्चातापपरो वैराग्यात् तापसो भूत्वा तीव्रं तपस्तप्त्वा जयसिंहदेवो जातः । स च हत्याद्वयादपुत्रः । जयताकोऽपि देशांतरं गच्छन् रूपसौभाग्यवान् आकर्णकृष्टकोदंडो मृगयापरः मार्गे श्रीयशोभद्रसूरिभिर्दृष्टः प्रोक्तश्च ।
"क्षत्रियोऽसि नराधीश ! प्रतिसंहर सायकं । आर्त्तत्राणाय वः शस्त्रं न प्रहर्तुमनागसि ॥ १ ॥ भो क्षत्रिय ! एवंविधं पवित्रं क्षात्रगोत्रमवाप्य मा जीवहिंसां कुरु । एतदाकर्ण्य लज्जितः प्राह"बुभुक्षितः किं न करोति पापं ? क्षीणा नरा पापपरा भवंति । आख्याहि भद्रे ! प्रियदर्शनस्य न गंगदत्तः पुनरेति कूपे ॥१॥
For Personal & Private Use Only
Jain Education International
www.brary.org