SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ कुमार० ॥५१॥ स्कृत्य श्रीकुमारपालं प्रति प्राहुः । वत्स ! त्वया नरकांतं राज्यं प्राप्य कलिकालेऽपि महतां महनीयस्त्रिभुवनोत्तमः श्रीजिन प्रतिबोध प्रबंध: धर्मः प्रतिपन्नः । स्वर्गस्था वयं प्रमुदिता देवसंसदि एतग्निशम्य राजा सचमत्कारमनाः प्राह । भगवन् ! तत्र तादृशमत्रेदृशं किमत्र तत्त्वं । श्रीगुरवः प्राहुः । नरेश्वर ! तत्रात्रापि नरकस्वर्गादिदर्शनं सर्व कलाकौशलमिदं तव पूर्वजाः यत्र स्वकर्मणा गताः तत्र संति । जिनवाक्यमेतत् पूर्वोक्तदशलक्षणो धर्मः । ततो लज्जितो राजा क्षामिताः गुरवः, एकदा कोऽपि ब्राह्मणः परीक्षार्थ हरीतकी मृष्टौ बध्वोवाच । हेमसूरिस्तं । "मुंकरि किसिउं हरडइ काइ रडेइ । जेण कारणि हं घल्लिउ सव्विह वंजणच्छेहिं" ॥१॥ न राटष्यति युष्माभिः स्वनामाग्रे स्थापितोऽस्ति । इत्यादि वाक्थैब्राह्मणैर्विरुद्भिः। सह प्रीतिरुत्पन्ना। यतः--"असारसंसारमहीरुहस्य सुधोपमं स्वादुफलं तदेकं । परस्परं मत्सरवर्जितानां यद्वर्धते प्रीतिरियं नराणाम् ॥१॥ एकदा व्याख्यानमध्ये श्रीगुरुभिहाहेति प्रोचे । इद्रयशगणिना तु हस्तौ घृष्टौ मुक्ते व्याख्याने तु राज्ञा पृष्टं भगवन् ! युवाभ्यां किं कृतं ? श्रीचंद्रप्रभप्रासादे दीपेन चंद्रोदयो लग्नोऽस्माभिदृष्टः स च हस्तौ घृष्ट्या अनेन विध्यापितः । राजा चमत्कृतः। स्वपुरुषैनिर्णयं व्यधात् । अहो निरतिशये काले श्रीभवतां ज्ञानं पूर्वभवमपि मे ज्ञास्यंतीति तदपृच्छत् । भगवन् ! इदमपि ज्ञायते यदहं पूर्वभवे कीदृशोऽभूत् । श्रीगुरुभिरुक्तं-राजन् । निरतिशयकालोऽयं यतः श्रीवीरनिर्वाणात ॥५१॥ वर्षाणां चतुःषष्ट्या चरमकेवली श्रीजम्बूसिद्धिं गतः । तेन सह द्वादशवस्तुनि त्रुटितानि । olibrary.org Jain Elba intematonai For Personal & Private Use Only
SR No.600191
Book TitleKumarpal Pratibodh Prabandh
Original Sutra AuthorMafatlal Zaverchand Gandhi
Author
PublisherMafatlal Zaverchand Gandhi
Publication Year1940
Total Pages156
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy