________________
कुमार०
॥ ४५ ॥
Jain Ed
ताणुरूपाः, एवं कर्म्मग्रन्थानुसारेण सविस्तरं बंधतत्त्वं ज्ञेयम् ।
अथ मोक्षतत्त्वं तत्रात्मनः स्वरूपावरणीयानां कर्मणां क्षयात् यः स्वरूपलाभः स मोक्षः, स च तादात्म्येन संबद्धयो जवकर्मणोः पृथक्करणं कर्मक्षयः, न तु सर्वथा क्षयः, कर्मपुद्गलानां नित्यत्वात्, यदुक्तं
जीवस्स य जणिएहिं चैव कम्मपुब्बबद्धस्स सव्व वियोगो जो तेण तस्स हवइ उ मुक्खो तस्य च सत्पदप्ररूपणा यथा - सत् - विद्यमानं मोक्ष इति पदं शुद्धशब्दवाच्यत्वात् नत्वसत् - - अविद्यमानं वन्ध्यास्तनंधय-गगनकुशेशय-खरविषाणादिवदशुद्धशब्दवाच्यम् यदुक्तम्—
बइकुणं संतपयं सारपयंमिणं दढेण धित्तव्वं अच्छिजउ परमपयं जयणा जा रागदोसेहिं ॥१॥
गत्यादिषु मार्गणास्थानेषु चित्यमानं नरगतावेव पंचेन्द्रियत्वे सत्वे भव्यत्वे संज्ञित्वे यथाख्यातचारित्रे क्षायिकसम्यक्त्वे अनाहारकत्वे केवलज्ञानदर्शने च मोक्षपदं, न शेषेषु । द्रव्यप्रमाणचिन्तायां सिद्धानामनन्तानि जीवद्रव्याणि गृहांतः प्रदीपितशतसहस्रप्रदीपप्रभावदन्योन्यं समवगाढानि संति ।
जत्थय एगो सिद्धो, तत्थ अणंता भवक्खयविमुक्का । अनुन्नसमोगाढा पुट्ठा सव्वे वि लोगंते । फुसइ अनंते सिद्धे सब्वपयेसेहिं नियमसो सिद्धो, ते वि असंखिज्जगुणा देसपएसिहिं जे पुट्ठा । क्षेत्रं - चतुर्दशरज्ज्वात्मक लोकाग्रे पंचचत्वारिंशत्योजनलक्षप्रमाणसिद्धिशिलारूपं यदुक्तंःपणयाललक्खजोयणविक्खंभा सिद्धसिलफलिहविमला, तदुवरि जोयणंते लोग्गन्ते तत्थ सिद्धगई । अथवा चरमभवशरीरप्रमाणा तृतीय भागोनावगाहनारूपं क्षेत्रं तदुक्तं
Intemational
For Personal & Private Use Only
ॐ प्रतिबोध प्रबंधः
॥ ४५ ॥
ibrary.org