________________
वाचनापृच्छनापरावर्त्तनाऽनुप्रेक्षा धर्मकथारूपः पंचधा स्वाध्यायः, ध्यानं धर्मऽशुक्लरूपं, व्युत्सर्गों द्विधा द्रव्यतो
भावतश्च यदुक्तम् —
दव्वे भावे य तहा दुहा वुसग्गो चउब्विहो दव्वे । गणदेहोवहिभत्ते भावे कोहाइ चाउत्ति ॥ इति तथा द्वादशधा तपो निर्जरातच्चम् ।
या कर्माणि शीर्यन्ते, बीजभूतानि जन्मतः । प्रणीता ज्ञानिभिः, सेयं निर्जरा शीर्णबन्धनैः ॥ १॥
अथ राजन् बंधतत्वं - अंजनचूर्णपूर्णसमुद्भकवन्निरंतरं पुद्गलनिचितलोके हेतुभिर्मिथ्यात्वाविरतिकषाययोगादिभिः सामान्यै : प्रत्यनीकत्वनिह्ववत्वादिविशेषरूपैश्च कर्मयोग्यवर्गणापुद्गलैः संगृहीतैरात्मना वह्नययः पिण्डवदन्योन्यानुगमात्मकः संबंधो बन्धः स च चतुर्विधो यथा प्रकृतिबंध, स्थितिबंधः अनुभाग - रसबन्धः प्रदेशबन्धः ।
प्रकृतिः परिणामः स्यात्स्थितिः कालावधारणं अनुभागो रसो ज्ञेयः प्रदेशो दलसंचयः । प्रकृतिस्थित्यादीनाश्रित्य मोदकदृष्टान्तो यथा कश्चिन्मोदको वातनाशकद्रव्यनिष्पन्नः प्रकृत्या वातमपहरति पित्तापहारिद्रव्यनिष्पन्नः पित्तम्, श्लेष्मापहारिद्रव्यतः निष्पन्नः श्लेष्माणं स्थित्या तु स एव कश्चिद्दिनमेकमवतिष्ठतेऽपरस्तु दिनद्वयं यावन्मासा दिकमपि, कश्चित् अनुभागेनापि स्निग्धमधुरत्वलक्षणेन स एव कश्विदेकगुणानुभागोऽपरस्तु द्विगुणानुभागः इत्यादि, प्रदेशाश्व कणिकादिरूपास्तैः स एव कश्चित् एकप्रसृतिमानः परस्तु द्व्यादिप्रसृतिमानः, एवं कर्मापि किञ्चित्प्रकृत्या ज्ञानाच्छादकम् किञ्चिदर्शनाच्छादकम् इत्यादि । स्थितिः त्रिंशत्सागरोपमकोटिकोटयादिका, तस्य रस एकस्थानादिः, प्रदेशाः अनं
For Personal & Private Use Only
Jain Eduntemational
brary.org