SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ ज्ञानपंचमी पर्व कथा रेक सहस्रा स्वयंवरेण परिणीतवान् । श्रेष्ठिपुत्री गुणमंजरी पंचमीतपप्रभावात् कर्म क्षयं गतं, रोगाः सर्वे क्षयं गताः । रूपवती जज्ञे । जिनधर्मवासितो जिनचन्द्रनामा वरो जाता। तौ वरदत्तगुणमंजयौं पंचमी यावज्जीवमाराध्य मृतौ । वैजयन्ते विमाने सुरौ जातौ । वरदत्तस्य जीवः च्युत्वा पुष्कलावति विजये पुडरिकीणी नगयां अमरसेननृपपत्नी गुणवत्याः शूरसेननामा पुत्रो जातः । स पाल्यमानो द्वादसवर्षीयो रूपलावण्य कलावान जातस्तं पिता राज्यं दत्वा परलोकं प्राप्तः । कन्याशतमेकं परिणीतवान । दश सहस्रवर्षाणि राज्यं पालयित्वा । सीमंघरस्योपदेशेन सुते राज्यं दत्त्वा प्रवजितः । एक वर्षसहस्र' संपालयित्वा केवलमुत्पाच मुक्तिं गतः, गुणमंजयो जीवो विमानात च्युत्वा रमणिविजयासन्नायां नगर्या अमरसिंहो राजा, अमरवति भार्यायामुदरे समुत्पन्नः पुत्रो जातः। सुग्रीवेति नाम दत्तं । विंशतितमे वर्षे पित्रा राज्यं दत्तं । धर्ममासाच परलोकं प्राप्य, सुग्रीवराज्ञः, चतुरशीतिसहस्राः पुत्रा जाताः । प्रान्ते चारित्रसहितं केवलं प्राप्य । पूर्वल मेकं प्रपाल्य मुक्तिं गतः। इति ज्ञानपंचमी कथा संपूर्ण । Jain Education Intel For Personal & Private Use Only www.jainelibrary.org
SR No.600187
Book TitleParv Charitra Trayam
Original Sutra AuthorBhadrankarsuri
Author
PublisherBhadrankarsuri
Publication Year
Total Pages46
LanguageSanskrit
ClassificationManuscript
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy