________________
मेस्त्रयोदशी कथा |
अथ एक्त्वभावना
यथाऽऽगतोऽत्रैकक एव जीवस्तथैकको गच्छति पारगत्यम् ।
कृतं यथाकर्म तथैककेन वै भुज्यतेऽन्यो न सहायकः स्यात् [उप ] ॥११६ ।। कटीसूत्रविहीनोऽयं यथायातस्तथैव च । गमिष्यति न संदेहो मोहं पश्चमि किं नहि ॥ ११७॥ यथैकम्योदरे रोगो भवेदत्यन्त दारूणः । भुक्ते स एव दायादो न कोपि रोगिणी भवेत् ।। ११८ ।। यदर्थ क्लेशकष्टान्यवमन्य द्रव्यमज्यते । मृते न तत्कुटुम्बं तत् नरकादो सहायकृत् ॥ ११९ ॥ मत्वेति स्वकुटुम्ब तच्छरीरं क्षणिकं तथा । सर्वमन्यद्भवेज्जीवात् सहायं धर्ममर्जय ॥ १२० ॥ अथ अन्यत्वभावनाअथ कायमपि त्यक्त्वा गच्छत्यन्यं भवं भवी । तदन्यवस्तुजातस्य कः सम्बन्धो विचार्यताम् १ ॥ १२१ ॥ तस्माद् गेहादिकं त्यक्त्वा धर्म मेकं ममाचर । स एव दुःखनाशाय बेह परभवे मतः ॥ १२२ ॥ सर्वस्माद्विषयादन्यो यथाऽयं विषया इमे । अस्मादन्ये तथा भाव्यं समचित्तासुखीभव ॥ १२३ ।। एवमन्यत्वभावेन वामितान्तःकदापि ना । लेशमात्रमपि शोकं लभन्ते सत्वराशयः ॥ १२४ ॥ अथाशुचिभावना यथा विष्ठागताः लोके पदार्था शुभतोऽशुभाः । तथा कायङ्गता मन्येऽतः कायमशुचेगहम् ॥१२५॥
॥३२॥
JainEducation int
For Personal
Private Use Only
wriww.jainelibrary.org