________________
* युग्मम् ।। योग्यपि जगौ-रे स तावत्तव स्वामी । नानंक्ष्यद्यदि मद्भिया ।। तदा तदीयमुंडेना-भविष्यच्चंडिकार्चिता * प्र.१०
* आविर्भूता* ॥४॥ तदभावे तु ते मूर्धा । विधाता कालिकार्चनम् ।। अतस्तव कथं भावी । स भीरुर्जीवितप्रदः ।।५।। किंच के आ
कालिकाकाल्योदितं यत्सो-ऽधुना विंध्याद्रिगह्वरे ।। श्वेतांबराणां पार्श्वेऽस्ति । शृण्वानो धर्ममार्हतम् ।।६।। तत आनायितं ।
प्रबोधनम् पश्य । तस्य खङ्गममुं तव ।। शिरश्च्छिदेऽतः स कथं । त्वामत्रागत्य रक्षिता ॥७।। चेत्पुनश्चंडिकां सृष्टिरक्षासंहारकारिणीम् ।। अस्मरिष्यस्तदाहं त्वा-मरक्षिष्यमसंशयम् ।।८।। इत्थं तयोरालापमाकर्ण्य हा कथमेष के पाषंडी बुद्धिमकरगृहं मत्सुहृदं विडंबयतीति रुषारुणेक्षणः क्षोणींद्रसुतः प्रत्यक्षीभूय साक्षेपमवोचत्-अरे निकृष्ट * पापिष्ठ । दुष्ट धृष्ट किमेलवत् ।। कुर्वन्नसि न किं त्वं मां । दृष्ट्वा मत्संमुखीभव ।।१।। कुरु युद्धमहंकारं । स्फेटये दर्शयामि ते ।। यमधाम नयाम्येनं । प्रमोदंमेदिनीजनम् ।।२।। अरे साधु दृष्टोऽसि! क्व संप्रति यास्यसि ? इति पुनः . पुनर्वदंस्त्रिदंडी मंत्रिपुत्रं मुक्त्वा यावत्कुमारवधायाधावत् तावद्राजसूरपि हेलयोत्पाटितद्वारकपाटप्रहारेण कापालिक-* पाणितः कृपाणं पातयित्वा केशेषु तं गृहीत्वा भुवि न्यस्योरसि वामपादं दत्वा च यावत्तच्छिरश्छेदोद्यतोऽभूत्तावत्कालिकांतरालीभूय मधुरस्वरमभ्यधात्-कुमार मारयैनं मा । योगिनं यदनेन हि । कृतार्चा नृशिरोऽब्जानां । । सप्ताधिकशतेन मे ।।१।। अद्य त्वदग्रे दृश्यमाननृशीर्षांबुरुहा सह, अष्टोत्तरशतनरशिरः सरसिजार्चया ।।२।। यावदाविर्भविष्यामि-तरामेतस्य योगिनः ॥ तावत्त्वमस्य पंसो द्रा- ग्भाग्याकष्ट इवागतः ।।३।। युग्मम
सटीका तेऽनन्यसामान्यं । शौर्यं चेतश्चमत्कृतम् ।। अतो वृणु वरं यस्मा–दमोघं देवदर्शनम् ।।४।। कुमारोऽप्यूचे-वरेण ॥४॥
米米
प्रश्नो.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org