________________
डमरुकं करे धारयन् ।। कुतोऽपि समुपागतः सपदि कोऽपि कापालिक - स्त्वदीयमवलोकनं सकलसिद्धिकृद्वांच्छति ।।१।। कुमारेणाप्यानयेत्युक्ते वेत्रिणा स त्रिदंडी प्रवेशितः सन्नाशीर्वादपूर्वमूर्वीपतिसुतमानंद्योचितस्थानस्थो व्यजिज्ञपत्-नरवरतनय ! मम त्वं । वितर क्षणमात्रमेकमेकांतम् || कथयामि यथा भवतः । पुरतः सर्वं स्वरूपं स्वम् ।।१।। ततः कुमारभ्रूसंज्ञया सर्वेषु सभ्येषूत्थितेषु पाषंडी जगाद - कुमार मम सद्भक्ति–तुष्टेन गुरुणार्पिता ।। एका त्रिभुवनक्षोभि-ण्याख्या विद्या हि विद्यते || १ || तस्या मया द्विषट्काब्धि पूर्वसेवा विनिर्मिता ।। अधुना तूत्तरसेवा । करणीयास्ति निश्चितम् ॥२॥ तत्त्वं मे भव साहाय्य - दायको येन तामहम् । स्मशाने कृष्णभूतेष्ट - निशायां साधयाम्यलम् ।।३।। इहासारे संसारे सारमुपकार एवेति विमृश्य कुमारो व्याकरोत् - योगिंस्तवेप्सितमहं । कर्त्ता गत्वा विधेहि सामग्रीम् ।। अद्यतनदिनाद्दशम-दिवसेऽस्ति चतुर्दशीरात्रिः || १ || योग्यपि जगौ-कुमार ! तां निशां यावत् । स्थास्यामि भवदंतिके ॥ कुमारोऽप्यूचे - कापालिक भवत्वेवं । कथनीयं किमत्र हि ||१|| ततो योगी कुमारेण समं भोजनादि विदधानोऽस्थात् । कदाचित्प्रस्तावं प्राप्य मंत्रिपुत्रो धात्रीपतिपुत्रमूचे - प्रियमित्र ! किमत्रैष । पाषंडी परितिष्ठति ।। कुमारोऽप्याहस्म - सखे केनापि कार्येण । तिष्ठन्नस्त्येष योगिराट् ||१|| मंत्रिसूरप्यभणत्-क्षितिपतिसुत किं कार्यं । येन सहानेन भाषणमपि द्राक् । मलिनयति जैनधर्मं । यथांशुकं पंकिलं सलिलम् ।।१।। तत्त्वं प्रसद्य सद्यो । विसर्जयैनं दुरात्मनां धुर्यम् ।। न हि पुनरपीदृशार्ह - द्धर्मप्राप्तिः कदापि स्यात् ।।१।। उक्तं च-इह संसारे सुलहं । सव्वंपि हु रजभजपुत्ताई || इक्कुच्चि पुण दुल्हो | धम्मो सव्वन्नु -
Education International.
For Personal & Private Use Only
प्र. १०
चत्तारि पुरिसजाया
प्रश्नो.
सटीका
॥७६॥
www.jainelibrary.org