SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ * बाणो मुधाभूत् । ततश्चेटकभाग्यविपर्ययं मत्वा तेऽष्टादशापि विशामीशाः स्वं स्वं पुरमगुः । को नाम कष्टे * प्र.९ * सहायी ? यतः-वृक्षं क्षीणफलं त्यजन्ति विहगाः शुष्कं सरः सारसा । निर्द्रव्यं पुरुषं त्यजन्ति गणिका दग्धं वनान्तं सेचनक मृत्यु मृगाः ।। पुष्पं पर्युषितं त्यजन्ति मधुपा भ्रष्टं नृपं सेवकाः । सर्वः कार्यवशाज्जनोऽभिरमते कः कस्य भो वल्लभः - हेल्लविहल्ल योर्दीक्षा ॥१॥ ततश्चेटको वैशाल्यामविशत् । अत्रांतरे प्रतिरात्रि सेचनकगजारूढौ हल्लविहल्लौ कोणिककटकभटान् नै हत्वा हत्वा वैशाली प्रविशतःस्म । एवं हल्लविहल्लविहितस्वबलविप्लवं ज्ञात्वा कोणिकः स्वयोधानभ्यधात्-हंहो * युष्मन्मध्ये । समस्ति कोऽप्युत्कटो भटो यस्तौ ।। सेचनकगजं च धर्तुं । प्रहर्तुमथवा समर्थः स्यात् ।।१।। इत्युक्ता र अपि भटा हल्लविहल्ल-योरिभस्य च धृतयेऽपहृतये च न प्रभवोऽभवन् । ततस्तद्विनाशायाशोकचंद्रभृत्याः सर्वत्र * * ज्वलदंगारां तणच्छन्नां परिखामकार्षः । हल्लविहल्लावपि तत्स्वरूपमजानानौ सेचनकगजारूढी वैरिवार * यावन्निशीथसमये समीयतुरुपखातिकं तावत्सेचनकगजः प्रागुत्पन्नजातिस्मृतिवशात्सर्वतो ज्वलदंगारां परिखां निरीक्ष्य 4 मैतौ पुरुषव्याघ्रौ विनश्यतामिति ध्यानपरः पुरः पदमपि नादात् । ततस्ताभ्यामभ्यधिकमंकुशेन सेचनकमाहत्येत्युक्तं रे । * दुरात्मन् यदेवं हि । संप्रति प्रतिकूलताम् ।। धत्से तज्ज्ञायतेऽवश्यं । वैरिभिर्विप्रतारितः ।।१।। इत्यरुंतुदवचोऽनंतरं के * स करी करेण करटादुत्तार्य तौ स्वं खातिकान्तरपातयत्, तत्तापव्यथाभवद्रौद्रध्यानः सेचनको मृत्वा रत्नप्रभाख्याया-* माद्यनरकोé नारकोऽभूत् । ततो हल्लविहल्लौ तमिभं मृतं वीक्ष्य विलक्षाविति दध्यतुः-अहहावयोर्गतधियोः । । सटीका * कृतेऽमुना दंतिनायकेन कथम् ।। सेचनकेन स्वात्मा । निवेशितः खातिकावह्नौ ।।१।। तदयं पशुरपि धन्यो । के ॥६९॥ प्रश्नो. Jan Education Internations For Personal & Private Use Only Hibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy