________________
* रजोऽदभ्राभ्रपटलाच्छादितमार्तंडमंडलो रथचक्रचीत्कारगारवबधिरितभुवनोदरः सुभटकरस्फुरत्करालकरवाल- * * रुग्विद्युदुद्योतमानः करटिदानवृष्ट्या भूवलयं जलद इव प्लावयन् स्वदेशसीम्नि कटकावासमसूत्रयत्, चेटकभूपोऽपि के
कालादिदशाना
मृत्युः * कोणिकबलसमबलेनोद्भवद्रेणुभिर्दशापि दिशोऽधयन् स्वमंडलोपांतमाप । तथा दशकालादिकुमारचमूसमानचमूसमन्विता : * अष्टादशान्ये नृपाश्चेटकभूपालमन्वचलन् । चंपाधिपसैन्ये सागरव्यूहमजनि, चेटकक्ष्मापकटके तु गरुडव्यूहोऽभूत् । । के कोणिकबले कालकुमारः सेनानीः, ततो युगपदजायन्त चिरकालप्रसुप्तसप्तसप्तिसुतोज्जागरणाय बंदिन इवोभयोरपि के * दलयो रणतूर्यरवाः । शत्रुवित्रासात्स्वस्वप्रभोः संप्रत्यनृणीभवाम इति वीरध्वनयश्च । एवमुभयोरपि सैन्ययोर्भटा
रणभुवमलंचक्रुः । अपूरयंश्च सिंहनादैर्धनुःकंकारैर्दोदँडास्फालनैः पादपातैश्च ते रोदसीविवरम् । ततो रथस्था । * रथिनः, पत्तयः पत्तीन्, गजारूढा गजिनः, अश्ववाराश्चाश्ववारानाहवायाजूहवन् । ततः प्रावर्तत बहुजीवक्षयकालः - * समरकालः, यत्र मरुत्पथसंस्था । अमरासुरखचरकिन्नराः सुभटान् ।। युद्धोत्सवं वितन्वन्त । आलोक्य सविस्मया के
आसन् ।।१।। यत्र नभःस्था देव्यः । प्रोत्पतदाहतभटौघशीर्षतमः ।। अस्मन्मुखचंद्र मा । ग्रसतामेवं भयं चक्रुः ।।२।। के यत्र शीतहेतिसंहति-हतहरिकरिरुधिरसंभवसरित्सु ।। लूनभटास्यान्यरुणो-त्पललीलामलंचक्रुः ।।३।। यत्र कबंधा । * विविधाः । शैलूषनरा इव प्रनृत्यंतः ।। शूराणां भीरूणामपि । हर्षभये अदुर्युगपत् ।।४।।
प्रश्नो. न एवंविधे महायुधि प्रवर्तमाने काल इव करालः कालकुमारो हयारूढो मा नश्यत मा नश्यत इति पलायमानान् के सटीका
स्ववीरान् संधीरयन् परबलं विदलयन्नुपचेटकमेत्येत्यभाषत-मातामह देह्यधुना । हल्लविहल्लौ विलंबमुत्सृज्य ।। ॥६६॥
e
ducation International
For Personal & Private Use Only
www.jainelibrary.org