________________
चिंतनम्
* मिश्रदृगित्याहस्म-वत्स ! त्वयि पितृस्नेहा-त्तव स्नेहः कियान् सुते ।।१।। कोणिकोऽप्यभाणीत्-मातर् ! मया पितुः * * स्नेह-लवोऽपि ज्ञायते न हि । तथापि वद यस्मान्मे । तदाकर्णनकौतुकम् ।।१।। चेल्लणाप्यभणत्-वत्स त्वयि *जा
जातपश्चात्ताप* गर्भस्थे । पत्यंत्रादनकुदोहदो मेऽभूत् ।। तदपूरणात्कृशतनुं । मां दृष्ट्वा प्रियतमः प्रोचे ॥२॥ सुभ्र तवांगे *
कोणिकस्य र कृशता । विभाव्यते किमिति तत्प्रसद्य वद ।। आख्यं विभोऽत्र कारण-मस्ति परं नोचितं वक्तुम् ।।३।। पुनरत्यंतं । * पृष्टा । पत्याहं प्रोक्षुषी कथंचिदपि ।। नाथ त्वदंत्रभक्षण-वांच्छा मेऽभूत्कुगर्भवशात् ।।४।। पूरयिता तव दोहद-मित्युक्त्वा * * प्रियतमस्तदैवाशु ।। आजूहवत्स नंदन-मभयकुमारं धिया सारम् ।।५।। प्रोचे च चेल्लणाया । मदंत्रभक्षणकुदोदहो *
जज्ञे ।। तत्पूरणाय चिंतय । कमप्युपायं महाभाग ।।६। ओमित्युक्त्वा स ततो । देशे सतमसि भवत्पितुर्जठरे ॥ * विन्यस्य कृत्रिमांत्रा-ण्यपूपुरद्दोहदं तन्मे ।।७।। निश्चितमपायकारण-मयमिति मत्वा गृहोपवनिकायाम् ।। त्वं * * जातमात्र एव । द्रुतं परिष्ठापितो मयका ।।८।। तत्र भ्रमता पित्रा । त्वां प्रेक्ष्याप्रच्छि चेटिका काचित् ।। कस्या एष * शिशुः सा-प्यूचेऽयं चेल्लणायास्तुक् ।।९।। लब्धोऽशोकद्रुतले । बालोऽयमतो ह्यशोकचंद्र इति ।। तव नाम *
विधाय पिता । धात्र्यास्त्वामार्पयन्मुदितः ॥१०॥ त्यक्तस्य तदानीं तेंऽगुली । मनाक्कुक्कुटेन जग्धाभूत् ।। के तद्व्यथया रुदतस्ते । व्यधापयद्भेषजादि पिता ।।११।। जाते तथापि न गुणे । स्वयं पिता तेंऽगुली गलत्क्लेदाम् ।।
प्रश्नो. * चूषयतिस्म मुहुर्मुहु-रहो महीयान् सुतस्नेहः ।।१२।। एवं गतार्तिरपि ते । कूनाभूदंगुली ह्यतो जनकः ।।*
सटीका । लोकोऽप्यकरोत्प्राकृत-वाण्या ते कोणिकेत्यभिधाम् ।।१३।। (एवं गतव्यथाऽपि हि कूना भवतोऽगुली ॥२॥
Jan Education International
For Personal & Private Use Only