________________
कोणिके
* शिशिरीकर्तुमिवावातरज्जलोत्फालः प्रावृट्कालः यत्रादभ्राण्यभ्रा-ण्यङ्ग्यप्यासंस्तमस्विनीभ्रांत्यै ।। विरहिजनकर्णशूला- प्र.९ * यतेस्म किल गर्जितारावः ।।१।। कषदृषदीव विहायसि । विरहिण्या रेखेव दिद्युते विद्युत् ।। वारांधारा हारा-यंतेस्म *
श्रेणिकस्नेहः * दरिद्रवधूहृदये ।।२।। वसुधावलयः कलिरिव ।। समजनि नवकंदलावलीकलितः ।। कूलिन्योऽपि च कुलटा ।
इवाभवन्नीचगामिन्यः ।।३।। इत्थं वर्षाकाले विलसति सति जलप्रवाहप्लावितकलां कलिनी वीक्ष्य सदष्टिः सरीति में * दध्यौ-दुर्जनमैत्रीवदियं । प्रवर्धमाना नदी मुनेरस्य ।। प्लावनविघ्नकरी मा । भवतुतरां वारिपूरेण ।।१।। ततः सुरी के k सरिप्रवाहमन्यतः प्रवाहयामास, तदादि तस्यर्षेः कूलवालक इति नाम जज्ञे । ___ इतश्च प्राचीदिग्मंडनायमाने मगधदेशे राजगृहे नगरे श्रेणिको नाम राजा, तस्य चेल्लणा नाम राज्ञी, तयोर्हल्ल-* विहल्लाशोकचंद्राद्या नंदनाः । कदाचित्तुष्टो नृपो हल्लविहल्लयोः पुरा सुरार्पितदिव्यकुंडलहारांबराणि हस्तिमल्लवदचलं सेचनकगजं च दत्तवान् । तदाकर्ण्य कोणिकः श्रेणिके कोपं वहन्नित्यचिंतयत्-यद्यदासीद्वरं वस्तु । तत्तत्प्रादात् । पितानयोः ।। नैव मे तदवैम्येष । पितृरूपेण कोऽप्यरिः ।।१।। तत्प्रसह्य निग्रह्यामुं । राज्यमेतत्क्रमागतम् ।। करोमि के स्वात्मसाद्यस्मा-द्वीरभोज्या वसुंधरा ॥२।। ततो कालादिदशभ्रातृभिः सह पर्यालोच्य कोणिकः श्रेणिकं पंजरांतः क्षिप्त्वा स्वयं राज्यमन्वशात् । गमयामास च कशाघातैरन्वहं जनकं ताडयन् कियत्समयम् । अन्यदा भोजनं मैं प्रश्नो. * कुर्वतोऽशोकचंद्रस्यांगभूरुत्संगस्थोऽशनांतरमूत्रयत्, तन्मूत्रभावितमन्नं दूरीकृत्यान्यद् भुंजानः कोणिकोऽभ्यर्णस्थां * सटीका * चेल्लणां मातरमवादीत्-अंब ! पश्यास्ति कीदृक्षः । स्नेहोऽमुष्मिन् सुते मम ।। चेल्लणाप्यवसरमाप्याश्रु-* ॥६१॥
Ja Educato Intematon
For Personal & Povate Use On
www.jainelibrary.org