SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ धार्तराष्ट्रे तादृगुपकारपरेषु च पांडवेषु रोषं तोषं च न चकार । अहो महात्मनां मनः समभावेन शशांकादपि शुद्धं, उक्तं च-जो चंदणेण बाहुं । आलिंपइ वासिणावि तच्छेइ || संथुणइ जो य निंदइ । महारिसिणो तत्थ समभावा ॥१॥ ततस्तं राजर्षिमानम्य स्वं धन्यं मन्वानाः पांडवाः प्रासादमासदन् । द्वितीयदिने तु सेवार्थमागतं दुर्योधनं दृष्ट्वा युधिष्ठिरनृपस्तादृग्मुनिविमाननोत्पन्नमन्युरित्याख्यत्-आः पाप भवतो वक्त्रे । दृष्टे भवति पातकम् ।। यदेवं हि त्वयापायो । निर्ममे निर्ममेशितुः || १ || पौरुषं तेऽधुना साधौ । बभूव न तदा यदा ॥ दमदंतनृपोऽभ्येत्यास्माकं पुरमवेष्टयत् ||२|| जिता वयं पुरानेन । कषाया अधुना पुनः ।। तदमुष्य मुनेः कोऽलं । बलं वर्णयितुं भुवि ?॥३॥ इत्थं निर्भर्त्वितोऽपि सुयोधनो मौनमाश्रयत् । कुतः पातकिनां प्रत्युत्तरशक्तिः ? दमदंतोऽपि मुनिर्नानादेशेषु भव्यान् प्रबोधयन् क्रमेणाव्ययं पदमवाप । इति दमदंतमुनींद्रचरित्रं । भव्यजनाः परिभाव्य पवित्रम् ।। स्वांतविशुद्धौ प्रकुरुत यनं । येन लभध्वं निर्वृतिरत्नम् ||१|| ।। इत्याचार्यश्रीदेवेंद्रसूरिविरचितायां प्रश्नोत्तररलमालावृत्तौ मानसशुद्धौ दमदंतराजर्षिकथा || मानसशुद्धिवैषयिकीं दमदंतराजर्षिकथां श्रुत्वा पुनरपि शुश्रूषुः शिष्योऽष्टमं प्रश्नमाह प्र॰ ८-कः पंडितः ? व्याख्या - हे भगवन् कः पुमान् पंडितो विद्वान् ? इति प्रश्ने शिष्येण कृते गुरुरपि तदनुयाय्यष्टममुत्तरमाह- 'विवेकी' हे वत्स ! विवेको हेयोपादेयार्थसार्थपरिज्ञानलक्षणः, स यत्रास्तीति मत्वर्थीयइन्प्रत्ययः । यस्य तु विवेको नास्ति स शास्त्रज्ञोऽपि परमार्थतोंऽध एव । यतः - एकं हि चक्षुरमलं सहजो For Personal & Private Use Only - प्र. ७ दमदंतराजर्षेः समभावः प्र. ८ . को विद्वान् ? प्रश्नो. सटीका ॥५६॥ www.jainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy