________________
*******
धर्मपाथेयवैषयिकीं श्रीशेखरकुमारकथां श्रुत्वा पुनरपि शुश्रूषुः शिष्यः सप्तमं प्रश्नमाह
प्र० ७ - कः शुचिरिह ? व्याख्या - हे भगवन् ! इह विश्वे कः पुमान् शुचिः पवित्रः ? इति प्रश्ने शिष्येण कृते गुरुरपि तदनुयायि सप्तममुत्तरमाह-यस्य मानसं शुद्धम् । व्याख्या - हे वत्स ! यस्य पुंसो मानसं मनः शुद्धं रागद्वेषविगमाद्विशदम् । यथा जलस्नानेन मलापगमाद्वाह्यांगानि शुचित्वमावहन्ति, तथा शुद्धभावांभः स्नानेन रागद्वेषरूपांतरंगमलापगमाच्चेतोऽत्यंतं पवित्रं स्यात्, यतः - उपकारिण्यपकारि - ण्यंगिनि ये रागरोषरहितहृदः ।। तेषां जिनवरगणधर–देवैर्गदितं मनः शुद्धम् ||१|| अत्रार्थे दमदंतराजर्षिकथा, तथाहि-
1
इहैव जंबूद्वीपे द्वीपे भारते वर्षे हस्तिशीर्षं नाम नगरं, यत्र ध्यानपराः प्रबोधितनरा निर्वाणसंपत्कराः । क्षिप्तानंगशराः प्रणाशितदरा गंभीरधीरस्वराः ।। लोभाब्जेंदुकरा भवार्तिनिकरारामोरुवैश्वानराः । शश्वत्क्षांतिधरास्तपोधनवराः सत्यागमे तत्पराः ॥ १॥ तत्र दमदंतो नाम राजा, यः प्रभाकर इव प्रतापवां-चंद्रमा इव कलाकलापभृत् ॥ कल्पवृक्ष इव वांछितप्रदः । क्षीरनीरधिरिवेंदिरास्पदम् ||१|| कदाचित्तस्मिन्नृपे प्रतिवासुदेवजरासंधसेवायै राजगृहे पुरे गते सति हस्तिनापुराद्गत्वा कौरवैः सह पांडवैर्लुटितो दमदंतदेशः । दमदंतोऽपि जरासंधमनुज्ञाप्य स्वपुरमागतस्तत्स्वरूपं श्रुत्वा रुषारुणेक्षणोऽदैन्यसैन्ययुतो हस्तिनापुरं वेष्टयित्वा प्रज्ञावनीभूतं दूतं शिक्षयित्वा पांडवं प्रति प्रैषीत् । दूतोऽपि पांडुपुत्रोपांतमेत्य प्रोच्चैरित्यूचे - हंहो पांडुमहीपाल - सूनवोऽस्माकमीश्वरः ।। दमदंतनृपो युष्म-त्पुरस्तादित्यबीभणत् ।|१|| मां विना यदयं देशो । लुंटाकैरिव लुंटितः ।। भवद्भिस्तदहं मन्ये । छलं वो न
***
प्र. ७
दमदंतराजर्षि
कथा
प्रश्नो.
सटीका
॥ ५४ ॥
www.jainelibrary.org