________________
* युतोऽपि दृग्विकलस्तु गमनक्षमोऽप्यन्योन्यममिलितौ दवाग्निना दग्धौ, मिलितौ च हेलयैव दावानलक्लेशमुत्सृज्य * प्र.६ * सुखभाजावभूताम् । एवं पृथग्ज्ञानं क्रिया च न सिद्धिनिबंधनं, किंतु संयुक्ते एव ज्ञानक्रिये मुक्तिदे स्तः, इत्थं *
किं पाथेयम् ? * परिज्ञाय सदागमज्ञा । ज्ञानं क्रियासंयुतमातनुध्वम् ।। यथा भवांभोनिधिपारमाप्य । महोदयश्रीसुभगा भवेयुः।।१।।
॥ इत्याचार्यश्रीदेवेंद्रसूरिविरचितायां प्रश्नोत्तररलमालावृत्तौ ज्ञानक्रियासंयोगे पंग्वंधकथा ।। ज्ञानक्रियासंयोगवैषयिकी पंग्वंधकथां श्रुत्वा पुनरपि शुश्रूषुः शिष्यः षष्ठं प्रश्नमाह -
प्र०६-किं पथ्यदनम् ? व्याख्या हे भगवन् ! पथि संसाररूपे मार्गेऽपित्त्या भवाद्भवांतरं गच्छतां जीवानां * * किमदनं पाथेयम् ? इति प्रश्ने शिष्येण कृते गुरुरपि तदनुयायि षष्ठमुत्तरमाह-'धर्मः' । व्याख्या-हे वत्स ! दुर्गतौ . * प्रपतन्तं प्राणिगणं धरति धारयतीति च धर्मः । उक्तं च-दुर्गतिप्रसृतान् जंतून् । यस्माद्वारयते ततः ।। धत्ते चैतान् *
शुभे स्थाने । तस्माद्धर्म इति स्मृतः ।।१।। ननु केचिद्धर्मबुद्ध्याऽजमेधादियज्ञकृत्ये प्रवर्तन्ते, परं न स धर्मः, धर्मस्य । * चेदं लक्षणं, यदागमः-से बेमि जे अईया, जे य पडुपन्ना, जे य आगमिस्सा, अरिहंता भगवंतो सव्वे एवमाइक्खंति, * * एवं भासंति, एवं पन्नवंति, एवं परूवंति, सव्वे पाणा सव्वे भूया सव्वे जीवा सव्वे सत्ता न हंतव्वा, न *
प्रश्नो. - अज्जावियव्वा, न परिघितव्वा, न उवद्दव्वेयव्वा । एस धम्मे सुद्धे धुवे नीए सासए समिच्च लोयं खेयन्नेहिं .
सटीका - पवेइए, अत ईदृग्विध एव धर्मो भवपथपथिकानां पाथेयतामाधत्ते । अत्रार्थे श्रीशेखरकुमारकथा, तथाहि - ॥४॥
antong
For Personal & Private Use Only
helbrary.org