SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ संयुक्ते ज्ञानक्रिये मुक्तिदे रप्यगृणात् * हि यस्य । वर्गस्य राज्यं सुखमेधते सः ।।१।। एवमेकांतसाम्राज्यं शासति सति दवाग्नौ पंगुर्मृत्युभयाद्यावद्विहस्तो-* * ऽभूत्तावद्दिङ्मूढमिव गाढं तद्व्यापतापितमितस्ततो भ्रमंतमंधमालोक्य प्रोच्चैरूचे-भ्रातरेह्येहि मद्वाक्य-* - मेकमाकर्णयाद्भुतम् ।। कृतेऽस्मिन्नाप्यते पार-मीदृशापायतोयधेः ।।१।। अन्यथा निर्धियोरग्र-तनपंग्वंधयोरिव ।। * आवयोरपि संभावि । मरणं शरणं स्फुटम् ।।२।। दृग्विहीनोऽपि तत् श्रुत्वा मंक्ष्वेव शब्दानुसारादुपपंगुलमेत्यालपत् सखे शीघ्रं समाख्याहि । कथमेतदभद्यतः ।। समयोऽयं विलंबस्य । सांप्रतं नैव सांप्रतम ||१॥ पंगरप बंधो ! पुरा पुरे क्वापि । कोऽपि राड् नागरैः सह ।। मारिभीतो वनीं काम-प्यगात्तरुसरोयुताम् ।।१।। स्थित्वा तत्र र * कियत्कालं । प्रशांते तदपद्रवे ।। राजादिलोकः पनर-प्यगमन्निजपत्तनम ॥२॥ केवलं पंगलोऽन्धश्चा-नाथावावामिव * स्थितौ ।। को नाम तादृशां शुद्धि-करणे प्रगुणीभवेत् ॥३॥ अन्यदा तत्र संलग्ने । दवाग्नौ सर्वभक्षिणि ॥* पंगुर्गत्यक्षमः सर्व-मपि पश्यन् व्यपद्यत ।।४।। ज्वलतोऽज्वलतो वापि । दिग्भागस्याविलोकनात् ।। भ्रमन्नपि हि * सर्वत्र । नेत्रहीनोऽपि भस्म्यभूत् ।।५।। एवं यथा तौ निर्बुद्धी । मृतौ नावां तथा यदि ।। कुरुषे मद्वचो नो * चे-द्भाव्यग्निर्दाहको हि नौ ।।६।। इति श्रुत्वांधोऽभ्यधात्-यद्येवं मित्र तद्वेगा-त्करणीयं ममादिश ।। यतः * स्वान्यशुभान्वेषी । न प्रमादपरो भवेत् ।।१।। पंगुरप्यवदत्-सखेऽध्वदर्शकोऽहं तु । त्वं गतिप्रगुणोऽस्यतः ॥ स्वांसे स्थापय मां येन । दीयतेऽग्नेर्जलांजलिः ।।१।। ततो हृच्चक्षुश्चरणविकलं स्वस्कंधेऽधिरोप्य तद्दर्शिताध्वना र * तद्दवाग्निदारुणं वनमाश्वेवोमुल्लंघ्य क्षेमेण तदेव पुरं ययौ । अयं तावद् दृष्टांतः, उपनयस्त्वयं-पंगुस्तावन्नेत्र- * प्रश्नो. सटीका ॥४५॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy