________________
* तस्याश्छेदः-सर्वथा विनाशः । स हि सम्यक्त्वावाप्तावेव स्यात्, तस्मिंश्च प्राप्ते पल्योपमपृथक्त्वेन देशविरतेलाभः, * * ततः संख्यातसागरोपमेषु क्षिप्तेषु चारित्रलंभः, ततः संख्यातसागरोपमेषु गतेषु उपशमश्रेणिः, ततः संख्यातसागरोपमेषु *
गजसुकुमाल
कथा * क्षीणेषु क्षपकश्रेणिः, ततस्तद्भव एव मोक्षः, यदागमः-सम्मत्तम्मि उ लद्धे । पलियपुहुत्तेण सावओ हुज्जा || * चरणोवसमखयाणं । सायरसंखंतरा हुँति ।।१।। एवमप्रतिपातिसम्यक्त्वस्य कतिचिद्भवैर्मोक्षावाप्तिः, तीव्रशुभपरिणामस्य । * त्वेकभवेनैवोपशमश्रेणिवर्जमन्यत्सर्वमपि स्यात्, यत्समयः-एवं अप्परिवडीए । समत्ते देवमणुयजम्मेसु ॥ * अन्नयरसेढिवज्जं । एगभवेणं च सव्वाइं ॥१॥ अतोऽनया रीत्या संसारसंततिच्छेदः । अत्रार्थे गजसुकुमालकथा, मैं । तथाहि - * इहैव जंबूद्वीपे द्वीपे भारते वर्षे सुराष्ट्रराष्ट्रमंडनमुपसमुद्रं लवणाधिपतिनिर्मिता द्वारिका नाम नगरी । * अस्मद्वद्भो ! मनुष्या ! जगति जनयितृभ्रातृभाग्नेयभग्नी-भार्यामित्रांगभूश्रीधनकनकमणिरूप्यमुख्याः पदार्थाः ॥ * * सर्वेऽप्येते ह्यनित्याः प्रतिदिनमिति यत्रांतरे वातधूता-हत्प्रासादध्वजौघा बहिरपि तु समुद्रोर्मयः सूचयन्ति ।।१।।
तत्र दशदशार्हबलभद्रादिभ्रातृमान्यस्त्रिखंडभरतक्षेत्रस्वामी कृष्णो नाम नवमो वासुदेवः । बंदीव यस्यादिमकल्पनाथः। * । समग्रदेवाग्रत एव शक्रः ।। अश्लीलयुद्धापरदूषणाना-मग्राहरूपामकृत प्रशंसाम् ।।१।। सोऽन्यदा प्रणामार्थं ।
प्रश्नो. * मातुर्देवक्या गृहमगात्, अयमेव सत्पुत्राणां पंथा, यतः-आस्तन्यपाना जननी पशूना-मादारलाभा च नराधमानाम् ।। सटीका * आगेहकर्मावधि मध्यमाना-माजीवितं तीर्थमिवोत्तमानाम् ।।१।। तत्र प्रणत्यनंतरं प्रदोषसमयांबुजिनीमिव * ॥३५॥
For Personal & Private Use Only
www.jainelibrary.org