________________
* ।।१।। इति सम्यग्ध्यायतो गुरुणा पुनःपुनर्हन्यमानस्य तस्य घातिकर्मक्षयादजनि पंचमं ज्ञानं, ततः सम्यग्भावेन * प्र.६४ * गच्छन् शिष्यो गुरुणाऽभाणि-वत्सासीत् स्खलना प्राक्ते । साऽधुना नेति किं वद ।। शिष्योऽप्याचख्यो-प्रभोऽभवं *उ.८३
पुराऽज्ञानी । ज्ञानवानधुना पुनः ।।१।। गुरुप्याहस्म-मुने ते प्रतिपात्याख्यं । ज्ञानमप्रतिपाति वा? ।। शिष्यो- शिष्यस्य * ऽप्यब्रवीत्-सूरे सम्यगवेहि त्वं । ज्ञानमप्रतिपातिकम् ।।१।। एतदाकर्ण्य चंडरुद्रोऽचिन्तयत्, अहोऽस्य क्षमावर्यं *
क्षमाभावेन
द्वयोरपि * शौर्यम् ! अहं तु दुरात्मा स्वभावरोषणः केवल्याशातनापरः, इत्यादि शुभध्यानाग्निदग्धकर्मशाखी शिष्य इव *
केवलज्ञानम् केवलज्ञानमुपार्जयत् । अहो अपूर्वशिष्योऽयं । यत्प्रभावो गुरोरपि ।। रोषाविष्टोरुचित्तस्य । केवलप्राप्तयेऽजनि * ।।१।। इति चंडरुद्रगुरुशिष्य-चरितमवगत्य धीधनाः ।। शौर्यमसंगततममाद्रियतां । क्षमयान्वितं यदि शिवश्रियः . * स्पृहा ।।१।।
॥ इत्याचार्यश्रीदेवेंद्रसूरिविरचितायां प्रश्नोत्तररत्नमालावृत्तो क्षमान्वितशोर्ये चंडरुद्रशिष्यकथा || * पुनरपि तस्मिन्नेव चतुःषष्टिसंख्ये शिष्यकृते प्रश्ने गुरुस्तदनुयायि तुर्यं त्र्यशीतिमितमुत्तरमाह-त्यागसहितं * च वित्तं, व्याख्या-हे वत्स ! वित्तं द्रव्यं, किंविशिष्टम्? त्यागसहितं, त्यागो दानं तेन सहितं युतं, यतो त * वित्तस्य त्रय एव गतयः, उक्तं च-दानं भोगो नाश-स्तिस्रो गतयो भवन्ति वित्तस्य ।। यो न ददाति न भुंक्ते । * प्रश्नो. * तस्य तृतीया गतिर्भवति ।।१।। अतो वित्तं त्यागफलं, यतः-शक्तेः परपरित्राणं । प्रज्ञायास्तत्त्वनिर्णयः ।। * सटीका * वाचः सत्यं श्रियो दानं । फलमाहुर्मनीषिणः ।।१।। अत एव त्यागसहितं वित्तं चतुर्थं भद्रं, चशब्द: * ४२७
Jain Education International
For Personal & Private Use Only
www.lainelibrary.org