________________
* रोषणसहज-स्तत्पूर्णं मम कोपेन ।। इति निजसाधुभ्यो विदधे । पृथगावासो येन ।।१।। इतश्च कश्चिदिभ्यभूरभिनव- * प्र.६४ * परिणीतो दुर्ललितसुहृद्युतस्तत्रागत्य साधूनवन्दत । ततः केलिप्रियतया तद्वयस्यैरित्यूचे-महात्मानो महाभाग-ममुं*
उ.८२ * दीक्षयत द्रुतम् ।। शठा अमीति ध्यात्वा साधुभिरम्यधायि-भो भो यद्येवमारात्त-द्यातास्मद्गुरुसन्निधौ ।।१।।
चंडरुद्र
शिष्यकथा इत्युदीर्य दर्शितस्तैराचार्यः, तेऽपि तेन सह सूरिपार्श्व गत्वा पूर्वोक्तमेव प्रोचुः सूरयोऽपि रोषादित्याख्यन्-अरे विलम्बमुत्सृज्य । रक्षया निभृतं भृतम् ।। पात्रमानीयतां येना-मुष्य लोचं विदध्महे ।।१।। अस्मद्वदेतेऽपि * हसन्तीति तेऽपि तथैवाऽकार्युः, सूरिरपि तस्य नवकंकणस्य लोचमकरोत् । सुहृदोऽपि विलक्षवक्त्रास्तत्स्वजनभिया *
गताः स्वं स्वं स्थानं, ततोऽभिनवदीक्षित इत्याचचक्षे-भगवन् केलिरेवायं । सत्यतां प्रजगाम तत् ।। * गच्छामोऽन्यत्र यावन्मे । नेवायाति परिच्छदः ।।१।। गुरुरप्याहस्म- भद्र! जंघाबलक्षीणाः । कुर्महे विहृतिं * * कथम्? || शिष्योऽप्याख्यत्-पूज्या मदंसमध्यास्य । विहारः प्रविधीयताम् ।।१।। गुरुरपि जगौ-यद्येवं वत्स * तन्मार्गं । निरूप्यागम्यतां यथा ।। यथा सुखेनोद्यत्तमिस्रायां गमो भवेत् ।।१।। शिष्योऽपि तथैव कृत्वा गुरुन् र स्कंधे निवेश्य निश्यचलत । ततो ध्वांताजेयनिम्नोन्नतभभागस्खलितत्वेन शिष्ये प्रस्खलति सहि पोषाद्गुरुरित्यवोचत्-रे दुष्ट कीदृशो मार्गो । भवता विनिरूपितः ।। यदेवं हि प्रतिपदं । गम्यते स्खलता सता *
प्रश्नो. * ।।१।। इत्युदीर्याचार्यः क्रोधात्तं दंडेन शिरस्यताडयत् । सोऽपि शौर्यवानपि शिष्यस्तदुपरि मनागपि न चुकोप,
सटीका किंत्वेवमचिन्तयत्-हा मया मंदभाग्येन । सुस्थावस्थः कथं गुरु ।। अपात्यत महाकष्ट-पारावारजलान्तरे?
*
Jain Education Interational
For Personal & Private Use Only
www.jainelibrary.org