________________
*******
****************
* ।।१।। यः कश्चिन्मन्यते नाज्ञां । तदानीं त्वं मम स्मरेः ।। यथा तवाहं साहाय्यं । विदधामि न संशयः ।।२।। * प्र.६२ * इत्युक्त्वा यक्षोऽलक्ष्योऽजनि, गोपालोऽपि गामुपादाय गृहमयासीत्, चकार च पारणम् । प्राप्ते च सप्तमेऽह्नि * उ.७७ स उपानधुगलं कम्बलं यष्टिं च श्रेष्ठिवेश्मन्युन्मुच्य कृतगोकुलत्यागः पुरपरिसरोद्यानान्तर्वर्तिन्यशोकतरुतले
पार्श्वयक्षक
दत्तवरः * पादौ प्रसार्यास्वाप्सीत्, तरुरपि स्थिरया छायया तमसेवत । तलि सुत्तह पुन्नगलह रुक्ख विच्छाह करंति /
कुमारः * पुन्नविहूणह माणुसह सुत्ति परम्मुह हुंति ।। अत्रांतरेऽकस्मादेव शूलव्याधिना गोवर्द्धननृपे निरपत्ये मृतेऽमात्यादि-*
भिरिभतुरगच्छत्रचामरपूर्णकलशेति दिव्यपंचकमभिमंत्रितं, तान्यपि सर्वमपि पुरं परिभ्रम्य भाग्यवदप्राप्त्या बहिर्निःसृत्य
तत्रागुर्यत्र स राजपुत्रः सुप्त आस्ते । ततस्तं सुखसुप्तमुत्थाप्य गजो बृंहितपूर्वं जलभृतकुंभेनाम्यषिंचत्, हयो र * हेषारवमकरोत्, छत्रं स्वयमेव उपरि वितस्तार, निराधारं चामराम्यां वीज्यतेस्म, तदनु दन्ती तं शुंडादंडेन के * कुंभस्थलोपरि विनिवेश्य सोत्सवं पुरे प्रवेश्य राजभुवने मृगेंद्रासने न्यवेशयत्, सोऽजायत सत्यं गोपालः, परं *
न मन्यते कोऽप्याज्ञां, प्रत्युत 'विमलश्रेष्ठिनोऽयं गोपाल' इति जहास समन्तात्सामन्तादिजनः, वृथाहं महीश * इति स दोदूयतेस्म काम, आकारयांचकार च श्रेष्ठिविमलं, सोऽपि नागात्, किंतूपहासाय राजद्वारेऽस्थापय* दुपानद्यष्टिकंबलान्, तन्निरीक्ष्य राजा खेदादित्यचिन्तयत्-वणिजोऽपि न मन्यन्ते । मदाज्ञां तत्करोमि किम्? ।। *
प्रश्नो. हुं ज्ञातमस्ति मे पार्श्व-यक्षः साहाय्यदायकः ।।१।। ततस्तेन पवित्रीभूय निशि स्मृतो यक्षः, सोऽपि प्रत्यक्षी
सटीका - भूयाभाषत-हे वत्स! मा विषीद त्वं । प्रातः कारय मृन्मयम् ।। गजं तदुपर्यारुह्य । कुर्यास्त्वं राजपाटिकाम् /
For Personal & Private Use Only
www.jainelibrary.org