SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ प्र.६२ उ.७६ औदार्ये नरदेव कथा * नोत्सेको न मदो न कालहरणं दानप्रवृत्तस्य तु ।।१।। अत्रार्थे नरदेवकुमारकथा, तथाहि इहैव जंबूद्वीपे द्वीपे भारते वर्षे शंखपुरं नाम नगरं, उत्तुंगतावाप्तनभःपथं विभावरी वरांशुसदृशैः सुधादलेः ।। अत्युज्ज्वलं शालमलं यदीयकं । विलंघितुं नैव विहंगमा अपि ।।१।। तत्र पुरंदरो नाम राजा, साम्येन नाम्ना ननु यस्य नेके -गजाश्वजायातनयातनूजः || शस्त्रैश्च लज्जाविवशः प्रकाश-यति स्वमद्यापि पुरंदरो न ।।१।। तस्य कनकसुंदरीकुक्षिरत्नं नरदेवो नाम कुमारः, अमानदानप्रभवां कलां कलां । स्वतोऽधिकां के यस्य निरीक्ष्य कर्णराट् ।। बलिश्च मंदाक्षवशात् त्रिविष्टपं । न मुंचतोऽद्यापि तथा रसातलम् ।।१।। सोऽन्यदा * स्वप्रासादस्थो वेत्रिणागत्य नतिपूर्वं विज्ञपयांचक्रे-कुमार! द्वारदेशेऽस्ति । सरस्वत्याः कुटुम्बकम् ।। युष्माकं में दर्शनं वांछ-न्मेघस्येव हि चातकः ।।१।। भूपभुवापि विस्मितेन प्रवेशयेत्युक्तः प्रतीहारस्तच्छारदाकुटुंबमविलंबं * प्रावेशयत् । तदप्याशीर्वादप्रदानपूर्वमुपाविशत् । ततो महींदुनंदनेन कुतो युष्माकमागमनम्? इत्युक्तो मूलपुरुषः * प्रोचे-देव! त्वत्कीर्तिनर्तक्या । नृत्यंत्या विश्वमंडपे || श्रुत्वा गुणज्ञधुर्यं त्वा-मागां देशांतरादहम् ||१|| अय मे तनुभूरेषा । पत्नी पुत्रप्रिया त्वसौ || चत्वारोऽपि कवित्वस्य । कलया विदिता वयम् ।।२।। एवं चेत्तर्हि में * 'असारात्सारमुद्धरेत्' इति समस्यापदं पूरयेति कुमारेणोक्तो मौलिक्यपुमानाहस्म-दानं वित्तादृतं वाचः । * * कीर्तिधर्मों तथायुषः ।। परोपकरणं काया-दसारात्सारमुद्धरेत् ।।१।। ततो 'गृह्यतां जन्मनः फलम्' इति * समस्यापदं पूरयेति नृपस्तेनोदितस्तन्नंदनोऽप्यवदत्-देवभक्त्या गरूपास्त्या । सर्वसत्त्वानकंपया || सत्संगत्या- प्रश्नो. सटीका For Personal & Private Use Only Jan Education International www.jainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy