SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ प्र.६२ उ.७६ औदार्ये नरदेव कथा * नोत्सेको न मदो न कालहरणं दानप्रवृत्तस्य तु ।।१।। अत्रार्थे नरदेवकुमारकथा, तथाहि इहैव जंबूद्वीपे द्वीपे भारते वर्षे शंखपुरं नाम नगरं, उत्तुंगतावाप्तनभःपथं विभावरी वरांशुसदृशैः सुधादलेः ।। अत्युज्ज्वलं शालमलं यदीयकं । विलंघितुं नैव विहंगमा अपि ।।१।। तत्र पुरंदरो नाम राजा, साम्येन नाम्ना ननु यस्य नेके -गजाश्वजायातनयातनूजः || शस्त्रैश्च लज्जाविवशः प्रकाश-यति स्वमद्यापि पुरंदरो न ।।१।। तस्य कनकसुंदरीकुक्षिरत्नं नरदेवो नाम कुमारः, अमानदानप्रभवां कलां कलां । स्वतोऽधिकां के यस्य निरीक्ष्य कर्णराट् ।। बलिश्च मंदाक्षवशात् त्रिविष्टपं । न मुंचतोऽद्यापि तथा रसातलम् ।।१।। सोऽन्यदा * स्वप्रासादस्थो वेत्रिणागत्य नतिपूर्वं विज्ञपयांचक्रे-कुमार! द्वारदेशेऽस्ति । सरस्वत्याः कुटुम्बकम् ।। युष्माकं में दर्शनं वांछ-न्मेघस्येव हि चातकः ।।१।। भूपभुवापि विस्मितेन प्रवेशयेत्युक्तः प्रतीहारस्तच्छारदाकुटुंबमविलंबं * प्रावेशयत् । तदप्याशीर्वादप्रदानपूर्वमुपाविशत् । ततो महींदुनंदनेन कुतो युष्माकमागमनम्? इत्युक्तो मूलपुरुषः * प्रोचे-देव! त्वत्कीर्तिनर्तक्या । नृत्यंत्या विश्वमंडपे || श्रुत्वा गुणज्ञधुर्यं त्वा-मागां देशांतरादहम् ||१|| अय मे तनुभूरेषा । पत्नी पुत्रप्रिया त्वसौ || चत्वारोऽपि कवित्वस्य । कलया विदिता वयम् ।।२।। एवं चेत्तर्हि में * 'असारात्सारमुद्धरेत्' इति समस्यापदं पूरयेति कुमारेणोक्तो मौलिक्यपुमानाहस्म-दानं वित्तादृतं वाचः । * * कीर्तिधर्मों तथायुषः ।। परोपकरणं काया-दसारात्सारमुद्धरेत् ।।१।। ततो 'गृह्यतां जन्मनः फलम्' इति * समस्यापदं पूरयेति नृपस्तेनोदितस्तन्नंदनोऽप्यवदत्-देवभक्त्या गरूपास्त्या । सर्वसत्त्वानकंपया || सत्संगत्या- प्रश्नो. सटीका For Personal & Private Use Only Jan Education International www.jainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy