SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ 米米米米米 परिभवकारा । बंधुजनो बंधनं विषं विषयाः ।। कोऽयं जनस्य मोहो । ये रिपवस्तेषु सुहृदाशा ||१|| तन्निशम्य • संविग्नो राजपुत्रश्चारित्रं गृहीत्वा सुगतिसाधको बभूव । इति विचित्रकलत्रकथां तडि-द्विलसितादपि लोलतरां नराः । हृदि विचिंत्य विचिंत्य विचित्रवत् । कुरुत यत्नमलं स्वहिताय भोः ||१|| ।। इत्याचार्य श्रीदेवेंद्रसूरिविरचितायां प्रश्नोत्तररत्नमालावृत्तौ विद्युद्विलसितलोलयुवतीषु विचित्रराजपुत्रकलत्रकथा || विद्युद्विलसितचपलदुर्जनसंगतयुवतिवैषयिक्यौ सुलसविचित्रराजपुत्रकलत्रकथे श्रुत्वा पुनरपि शुश्रूषुः शिष्यः षष्टिसंख्यं प्रश्नमाह प्र. ६० - कुलशैलनिः प्रकंपाः के कलिकालेऽपि ? व्याख्या - हे भगवन् ! तिष्ठन्तु सुषमसुषमाद्याः कालाः, किन्तु कलिकालेऽपि दुःषमाकालेऽपि कुलशैलाः कुलाचलास्तद्वन्निः प्रकंपा: कंपयितुमशक्याः के? इति प्रश्ने शिष्येण कृते गुरुरपि तदनुयायि चतुःसप्ततिमितमुत्तरमाह - सत्पुरुषाः, व्याख्या - हे वत्स ! सन्तः शोभनाः पुरुषा नरा : सत्पुरुषाः, यतस्ते प्रतिज्ञातसुकृतादिकृत्याद्देवैरपि क्षोभयितुं न शक्यंते, उक्तं च-कदाचनापि कम्पन्ते। वातेनापि कुलाचलाः || चाल्यन्ते स्वीकृतात्कृत्यात् । सुरैरपि न साधवः ||१|| अत्रार्थे कामदेवपरमोपासककथा, तथाहि इहैव जंबूद्वीपे द्वीपे भारते वर्षे चम्पा नाम नगरी, परचक्रादिकभयस्वचक्रा - दिकभयाभावे सर्वो लोकः ।। यस्यां सुखितो वसति । यथा सूर्यालोके कोकः ||१|| तत्र श्रीवर्द्धमानस्वामिप्रबोधितदशप्रमिताऽऽनंदादि For Personal & प्र. ६० उ. ७४ सत्पुरुषाः निश्चलाः प्रश्नो टीका ३९२ www.jainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy