________________
* अत्रांतरे आर्यमहागिरिः सुहस्तिनमवादीत्-वत्स स्वच्छमते नैवं । विधातुं तव युज्यते ।। यद्राजपिंडमादत्से-* प्र.३ * ऽनेषणीयं विदन्नपि ।।१।। सुहस्त्यपि विज्ञपयतिस्म-भगवन् यादृशो राजा । तादृगेव प्रजा यतः ।। विश्राणयंत्यदो असंभोगिकल्पः
राजा-ऽनुवर्तनपरा नराः ।।१।। मय्यपि मायेति मनाग् रुष्टो महागिरिरभाषिष्ट-शांतं पापं विसंभोगो-ऽतः परं । * ध्रुवमावयोः ।। सामाचारीसमैः साकं । युक्तो वासो न चान्यथा ।।१।। सुहस्त्यप्येतत् श्रुत्वा शिशुवद्भिया , * वेपमानांगो महागिरिपादानभिवंद्य प्रांजलिरजल्पत्-भगवन् ! सापराधोऽस्मि । मिथ्यादुष्कृतमस्तु मे ॥ *
क्षम्यतामपराधोऽयं । न कर्ता पुनरीदृशम् ।।१।। को नाम वत्स ते दोषः । पुराप्येतदुदीरितम् ।। सिद्धार्थपार्थिवकुल* व्योमसोमत्विषार्हता ||२॥ यदस्मच्छिष्यसंताने । स्थूलभद्रानंतरम् ।। हीयमाना ध्रुवं साधु-सामाचारी भविष्यति । *॥३॥ श्रीस्थूलभद्रादावां हि । जातौ तीर्थप्रवर्तकौ ।। तदेतद्वर्द्धमानस्य । वचः सत्यीकृतं त्वया ॥४॥ एवमसंभोगिकल्पं *
परिकल्प्य तत्त्वज्ञः श्रीआर्यमहागिरिर्जीवंतस्वामिप्रतिमां प्रणम्योज्जयिन्या निर्गत्य पुरा दशार्णपुरपरिसरविभूषणायमाने . I दशार्णगिरौ श्रीवीरसमवसरणे दशार्णभद्रनरेंद्रप्रबोधसमयसमायातशक्रगजेंद्रपदप्रतिबिंबोद्भव * तीर्थेऽनशनपूर्वं सुपर्वपदमासदत् । संप्रतिनृपोऽपि श्रावकत्वं प्रपाल्य स्वर्गमगच्छत्, ततो मोक्षं याता।
___ आर्यसुहस्त्यपि नानादेशेषु विहरन् पुनरुज्जयिन्यां जीवंतस्वामिप्रतिमानमश्चिकीर्बाह्योद्याने स्थितो वसतिं * प्रश्नो. * याचितुं यतियुगं पुर्यां प्रजिघाय । मुनी अपि गच्छंतौ भद्राश्रेष्ठिनीगृहे प्राप्तौ । भद्राप्युत्थाय साधू नत्वा चोवाच-पूज्यौ । सटीका * महान् प्रसादोऽयं । यद्भवद्भ्यामुपागतम् ।। मदीयं धाम तत्काम-मादेशः प्रवितीर्यताम् ।।१।। तावप्यूचाते-शिष्यौ * ॥३१॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org