________________
स्वयमेव
* सुहस्तिनः पुण्य-वत्यावां तन्निर्देशतः ।। शय्यां याचितुमायातौ । तद्दानं हि महाफलम् ।।१।। यदागमः-जो देइ * * उवसयं । मुणिवराण तवनियमबंभजुत्ताणं ।। तेणं दिन्ना वत्थन्न-पाणसयणासणविगप्पा ।।१।। अन्यत्राप्युक्तं धृतिस्तेन के
अवंति * दत्ता । मतिस्तेन दत्ता । गतिस्तेन दत्ता सुखं तेन दत्तम् ।। गुणश्रीसमालिंगितेभ्यो वरेभ्यो । मुनिभ्यो मुदा येन दत्तो सुकुमाल * निवासः ॥१॥ इत्याकर्ण्य वितीर्णा तया स्वयानशाला, सूरयोऽपि सपरिवारास्तामलंचक्रुः । कदाचिदाचार्यैः ।
साधुलिंग * प्रतिक्रमणानंतरं नलिनीगुल्माध्ययनं मधुरध्वनिना गुण्यमानं भद्रानंदनस्यावंतिसुकुमालस्य सप्तभूमिकगृहोपरि * मंगीकरणम * सुरस्त्रीप्रायैात्रिंशता कलत्रैः सह भोगाननुभवतोऽपि श्रुतिगोचरचारितामंचतिस्म । तदाकर्णनादेव तादृग्विषयसुखं *
विषमिव मुक्त्वा सौधादुत्तीर्य वसतिद्वारमेत्य क्वाप्यनुभूतं नलिनीगुल्मविमानसुखमिति चिंतावशाज्जातजातिस्मृतिः । * सूरिसमीपमेत्य च नतिपूर्वमूचे-पूज्या भद्रासुतोऽवंति-सुकुमालोऽस्म्यहं पुरा ।। अभूवं नलिनीगुल्म-विमाने । * भासुरः सुरः ।।१।। जातिस्मृतिवशाद् ज्ञात-तत्सुखः पुनरप्यहम् ।। तत्रैव गंतुमिच्छामि । तन्मे वितरत व्रतम् ।।२।।*
सूरयोऽप्यवदन्-हे बाल सुकुमालांग । स्वारोहः सुरभूधरः ।। सुखोल्लंघ्योऽब्धिरप्येकं । दुष्करं त्वार्हतं व्रतम् ।।१।।
भाद्रेयोऽप्यभाणीत्-भगवंश्चरणादान-सावधानमनास्त्वहम् ।। सामाचारी परं नैव । चिरमाचरितुं क्षमः ॥१॥ * तथापि धैर्यमालंब्य । दीक्षां सानशनामहम् ।। ग्रहीष्यामितमामल्प-तरकष्टमिदं यतः ॥२॥ आचार्या अप्यूचुः महाभाग ! के * परिव्रज्या-मादातुं यदि वांछसि ।। तदानुज्ञापय स्वीय-कुटुंबमिह कर्मणि ।।१।। इत्याकर्ण्य गतोऽवंतिसुकुमालः, .
सटीका * आपृच्छतेस्म स्वजनान्, न च तैरनुज्ञातः, ततः क्लेशान्निव केशानुत्पाट्य स्वयमेव साधुलिंगमंगीचकार । ।
॥३२॥
प्रश्नो.